________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
कत्यतत्त्वम् ।
४३७
बुध्येत जगत्सर्वं चराचरम्' इत्यनेन पूजयेत् 'उपवासेव किं तस्य यज्ञेरन्यं महात्मनः । प्रखापे च प्रबोधे च पूजितो येन केशव:' श्राषाढ्यां पौर्णमास्यां दानमावश्यकम् ।
अथ श्रावणक्कत्यं तत्र देवीपुराणं 'सुप्ते जनार्दने कृष्णे पञ्चम्यां भवनाङ्गने । पूजयेन्मनसादेवीं खुहीविटप संस्थिताम्' । हौ सिजुवृत: । 'देवीं संपूज्य नत्वा च न सर्पभयमाप्नुयात् । पञ्चम्यां पूजयेनागाननन्ताद्यान्महोरगान् । चीरं सर्पिश्च नैवेद्य देयं सर्पविषापहम्' । गारुड़े 'अनन्तं वासुकिं शङ्ख पद्म कम्बलमेव च । तथा कर्कोटकं नागं धृतराष्ट्रञ्च शङ्खकं कालौयं तचकञ्चापि । पिङ्गलं मणिभद्रकं यजेत्तानसितान्रागान् दष्टमुक्तो दिवं व्रजेत्' । पुराणान्तरेऽपि । 'अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः । कुलौरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकीर्त्तिताः । पाद्म 'शेषः पद्मो महापद्मः कुलौर: शङ्खपालकः । वासुकिस्तचकचैव कालीयो मणिभद्रकः ॥ ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ' । रत्नाकरे 'पिचुमर्दस्य पत्राणि स्थापयेत् भवनोदरे । स्वयच्चापि तदश्नीयात् ब्राह्मणानपि भोजयेत्' पिचुर्मदस्य निम्बस्य । प्रयोग: हरिशयनानन्तरं गौणचान्द्रेण श्रावणकृष्ण पञ्चम्यां कृतस्नानादिरुदङ्मुखः । अद्य श्रावणे मासि कृष्ण पक्षे पञ्चम्यान्तिथौ अमुकगोत्र: श्री अमुकदेवशर्मा सर्पभयाभावकामो मनसादेवीपूजामहं करिष्ये इति सङ्कल्पा स्रुहोतृक्षे पूजयेत् । तदभावे घटे जले वा न्यासादिकं कृत्वा देवीमन्वेति ध्यात्वा मनसादेवि इहागच्छेत्यावाह्य एतत् पाद्यम् श्रम मनसादेव्यै नमः इत्यनेन यथाशक्ति गन्धपुष्पधपदीपनेवेद्यानि दद्यात् । ततोऽनन्तादीनागान् पूजयेत् । तत्र
तत्र
For Private and Personal Use Only