SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्वत्यतत्त्वम् । फललक्षगुणफलप्राप्तिकाम इति रविग्रहणेऽमुकद्रव्यदशलचदानजन्यफल समफलप्राप्तिकाम इति विशेषः । एवं स्नानेऽपि गङ्गायान्तु चन्द्रग्रहणे कोटिगुणगङ्गासानेति रविग्रहणे तु दशकोटिगङ्गास्नानेति शेषः । गङ्गातीरचन्द्रग्रहणदाने लचेत्यत्र कोटीति रविग्रहणदाने तु दशलक्षेत्यत्र दशकोटोति विशेषः । तत्र मृतपितृकेण सकृत्प्रक्षालितामान्नेन श्राद्धं कर्त्तव्यम् । तत्न जननमरणाशौचिनापि स्नानं कर्त्तव्यम् । दानं श्राडञ्च न कर्त्तव्यम् । चताशौचवतापि सर्वं कर्त्तव्यम् । पुरश्चरणकारिणा तु ग्रहणारम्भकाले तदृष्ट्वा मज्जनमात्रं कृत्वाचम्य तिलकुशजलान्यादाय ओम् तत्सदित्युच्चार्य अद्येत्यादि अमुकदेवताया अमुकमन्त्र सिद्धिकामो ग्रासाद्दिमुक्तिपर्यन्तम् अमुक देवताया अमुकमन्त्रजपमहं करिष्ये इति सङ्कल्या ऐशान्यां जलं क्षिष्वा प्राणायामं कृत्वा तावत् कालं जपेत् । सूर्यग्रहणे तु राक्षसोतरकाले तद्दिने अन्यथोभयग्रहण एव परदिने प्रात: पूजयित्वा जपदशांशहोमं कुर्य्यात् तदभावे राहुग्रस्तनिशाकरकालीनासुकमन्त्रजपदशांश हो महिगुणजपं वैष्णवस्तु चतुगुणजपमहं करिष्य इति सङ्कल्पा जपं कृत्वा समय राहुग्रस्तनिशाकर कालोना सुकमन्त्रजप दशांश- होम-तद्दशांशतर्पणमहङ्करिष्ये इति सङ्कल्पा मन्त्रमुच्चाय्या मुकदेवतां तर्पयामि नम इति तर्पयेत् । ततश्च राहुग्रस्तनिशाकरकालीनामुकमन्त्रजपतद्दशांश होम तद्दशांश तर्पण तद्दशांशाभिषेकमहं करिष्य इति सङ्कल्पात्मानं देवतारूपं ध्यात्वा मूलमन्त्र' नमोऽन्तमुच्चार्य्यमुकदेवतामभिषिञ्चामि नम इत्यनेन मूञ्जलिनाभिषिञ्चेत् । गोपालमन्त्रे तु होमदशांशेत्यत्र होमसमसंख्येति निर्देश्य ततो महतीं पूजां विधाय श्रभिषेकदशांशब्राह्मणकर्त्तकभोजनमहं करिष्य इति सङ्कल्पा ब्राह्मणान् भोजयेत् । ३७-क For Private and Personal Use Only ४३३
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy