SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यतत्वम् । ४३१ पूजने तु। श्रीम् बिध्यवासिन्यै षष्ठेय नम इत्यादिना पूजयेत्। 'जय देवि जगन्मातर्जगदानन्दकारिणि। प्रसीद मम कल्याणि नमस्ते षष्ठि देवि ते' इत्यनेन नमस्कृत्य 'रूपं देहि यशो देहि भाग्य' भगवति देहि मे। पुत्वान् देहि धनं देह सर्वान् कामांश्च देहि मे। इत्यनेन प्रार्ट येत्। ततः फलाहारं कुर्यात् । ___ अथ दशहरा। तत्र यस्यां कस्याञ्चिवद्यासुदयगामिन्यां ज्येष्ठ शक्ल दशम्याम् ओम् अद्ये त्यादि सुमहापातकोपपातकदशविधधापक्षयकामो दर्भकरणतिलतर्पणाङ्गकमानमहं करिष्ये एवं दानेऽपि गङ्गायान्तु अद्येत्यादि दर्शावधपापक्षय कामी गङ्गायां मानमित्यादि मङ्कल्पा सामान्यस्नानमन्वान्ते मज्जनस्यादौ प्रोम् 'अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिक विविधं स्मृतम्। पारुष्यमन्तञ्चैव पैशुन्यञ्चापि सर्वशः। असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् । परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम्। वितथाभिनिवेशश्च विविधं कर्म मानसम्। एतानि दशपापानि प्रशमं यान्तु नाइवि। सातस्य मम ते देवि जले विष्णुपदोद्भवे । विष्णुपादायसम्भूते गले त्रिपथगामिनि। धर्मद्रवौति विख्याते पापं मे हर जागवि। श्रद्धया भक्तिसम्पने श्रीमातदेवि जाहवि। अमृतेनाम्ब ना देवि भागौरथि पुनौहि माम' इति पठित्वा स्वायात्। हस्तायोगे तु हस्तानक्षत्रयुक्तदशम्यां दशजन्मार्जितदशविधपापक्षयकाम इति वाक्ये विशेषः । मङ्गलवारयोगे तु मङ्गलवारयुक्तायां दशम्यां दशविधपापक्षयपूर्वकशतगुणवाजिमेधायुत यज्ञजन्य फलसमफलप्राभिकाम इत्यभिलाप विशेषः । अथ महाज्यैष्ठी। सा ज्येष्ठायां गुरुचन्द्रावस्थाने रोहिण्यां For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy