SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्यतस्वम् । वैशाखमासि वै तिथिः। टतौया साक्षया ख्याता गौर्वाणैरपि वन्दिता। योऽस्यां ददाति करकान् वारिवाजसमन्वि. तान्। स याति पुरुषो वीर लोकान् वै हेममालिनः' । वाजमवम्। हेममालिन: सूर्यस्य। ततो जलमन्नसमन्वि. तदाने सूर्यलोकगमनं फलं दानानुष्ठानं पूर्ववत्। ब्रह्मपुराणं 'वैशाखे शक्लपक्षे च टतीयायां कृतं युगम्। कार्तिके शक्लपक्षे च वेता च नवमेऽहनि । अथ भाद्रपदे मासि त्रयोदश्यान्तु हापरम्। माघे तु पौर्णमास्यान्तु घोरं कलियुगं स्मृतम् । युगारम्भास्तु तिथयो युगाद्यास्त न विश्रुताः। तत्र वैशाखादयः पौर्णमास्यन्ता एव तथैव तिथि कत्याभिधानात् मुख्य वाचित्वे कार्तिकनवमेऽहनौति सिद्धौ शुक्लपक्ष इति व्यर्थ स्यात् प्रासां प्रशंसामाह विष्णु पुराणं 'एता युगाद्याः कथिता: पुराणैरनन्तपुण्यास्तिथयश्चतस्रः। उपप्लवे चन्द्रमसोरवे. स्त्रिष्वयष्ट कास्वप्य यनये च। पानीयमप्यत्र तिलेश्च मिश्र दद्यात् पितृभ्यः प्रणतो मनुष्यः । श्राद्धं कृतं तेन समाः सहस्र रहस्यमेतत् पितरो वदन्ति'। उपलवे ग्रहणे देवीपुराणं 'युगाद्या वर्षवृद्धिश्च सप्तमौ पार्वती प्रिया। रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता'। अक्षयतृतीयामधिकृत्य ब्रह्मपुराणम् । 'तस्यां कार्यो यवैोमो यवैविष्णु समर्चयेत् । यवान् दद्यात् हिजातिभ्यः प्रयत: प्राशयेद् यवान्। पूजयेच्छङ्करं गङ्गां कैलासञ्च हिमालयम्। भगीरथञ्च नृपतिं सगराणां सुखा. वहम्'। स्कान्दे 'वैशाखस्य सिते पक्षे तौयाक्षयसंज्ञिता। तव मां लेपयेद् गन्धैलेपनैरतिशोभनैः'। मां जगनाथम् । अन्यत्रापि तथाच गङ्गास्नानमधिकृत्य भविथे 'संवत्सरफलं राजन् नवम्यां कार्तिके तथा । मन्वादौ च युगादौ च मासबयफलं लभेत्। मन्वादयस्तु भविथमात्स्ययोः । अश्वयुक् For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy