________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
सत्यतत्त्वम् ।
तत्र चान्द्रमपि हिविधम्। तथाच विशुः । 'दर्श वा पौर्णमामी वा प्रारभ्य सानमाचरेत्। पुण्यान्यहानि त्रिंशत्तु मकरस्थे दिवाकरे'। दर्शान्तयागसम्बन्धिनी प्रतिपदं पौर्ण. मासों तदिष्टिसम्बन्भिनी प्रतिपदमारभ्य विंशत्तिथि नारा. यणोपाध्यायस्तु दर्शपौर्णमासौति पूर्वदिनसङ्कल्पपरमिति तत्र सौरकत्ये राश्यलेखः कार्य: 'संक्रान्तिविहिते कार्य संक्रान्तिः परिकीर्तिता। मासोल्लेखश्चेतरस्मिन् रविराथिस्थितिस्तथा। इति गारुडात्। ततवारुणोदयकाले मननं लत्वा पाचम्योदन खः प्रोम् तत्सदित्युचार्य अद्य वैशाखेमासि प्रमुकपः अमुकतिथौ आरभ्य मेषस्थरविं यावत् प्रत्यहममुकगोवः श्रीअमुकदेवशर्मा विष्णुप्रीतिकाम: प्रातःमानमहं करिथे इति। गङ्गायान्तु अईप्रसूतगवौलक्षदानजन्यफलसमफलप्राप्तिकामो विष्णुप्रौतिकामो वा इति सङ्कल्पर यथोक्तविधिना सायात्। प्रतिदिनसङ्कल्पे तु प्रारभ्य मेषस्थरविं यावत् प्रत्यहमिति न वक्तव्य किन्तु मासौत्यनन्तरं मेषस्थरवावित्य. धिकं वक्तव्य चान्द्रे तु मासि अनन्तरं शुक्लपक्षे प्रतिपदि तिथौ प्रारभ्य दर्शपर्यन्तमित्यूहनौयं प्रतिदिनसङ्कल्पे तु भारभ्य प्रत्यहमित्यन्त न वतव्यम्। एवं कृष्ण प्रतिपदारम्भे ऊह. नीयम् एवं मासान्तरे चोहनीयम् । सङ्कल्पाकरण फलहानि. माह भविष्यपुराणं 'सङ्कल्पेन विना राजन् यत्किञ्चित् कुरुते नरः। फलञ्चाल्पाल्पकं तस्य धर्मस्याईक्षयो भवेत्। महार्णवे 'यो ददाति हि मेषादौ शक्तनम्बुघटान्वितान् । पितृनुद्दिश्य विप्रेभ्यः सर्वपापैः प्रमुच्यते। विप्रेभ्यः पादुकां छत पिटभ्यो विषुवे शुभम् । पिटभ्यः पितृनुहिश्य अत्र विष्णुरहस्यम् 'अयने कोटिगुणितं लक्ष विष्णुपदीषु च। षड़शौतिसहस्रन्तु षड़शोत्यामुदाहृतम्। शतमिन्दुक्षये पुण्यं सहसन्तु दिनक्षये ।
For Private and Personal Use Only