________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्। नैषां सिद्धिरनग्नताम्'। इति स्मरणात् साग्निब्रह्मचारिणोरत्रानधिकार इति वाच्य हेमाद्रिस्ताग्निपुराणवचनेन तयोरम्यधिकारावगमात् यथा 'एहस्थो ब्रह्मचारी च प्राहिताग्निस्तथैव च। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । सभ कायास्तु व्रतोपवासादिः पृथनिषिदो मनुना यथा 'नास्ति स्त्रीणां पृथक्य जो न व्रतं नाप्युपोषणम्। पति शुश्रूयते यत्तु तेन खर्गे महीयते। विष्णु नापि भर्तः समानबतचारित्वमुक्त समानबतचारित्व भर्तव्रताचरणे तदानु. कूल्यकारित्वम्। यत्र तु सावित्रीव्रतादौ विशेषविधिस्तत्र भर्तनुज्ञया पृथगपि। यथा शङ्खः । 'कामं भत्रनुज्रया व्रतोपवासनियमेज्यादौनामभ्याम:'। स्त्रौधर्म इति । यत्तु 'पत्यो जीवति या नारी उपोथ व्रतमाचरेत्। श्रायुः संहरते पत्युः सा नारी नरकं व्रजेत्' इति विष्णक्तं तदननुज्ञातविषयम्। कात्यायन: 'विधवा या भवेन्नारी भुञ्जीतैकादशी. दिने। तस्यास्तु सुक्तं नश्येत् भ्रूणहत्या दिने दिने। जीमूतवाहनः। 'एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । वजस्थयतिधर्मोऽयं शक्लामेव सदा गृही' इति गोभिलवचनात् गृहिण: शुक्लकादश्यामेवाधिकारः। न च गृहीतरपरत्वे कृष्णकादश्याः कथं 'दशम्यां नियताहारो मांसमैथनवर्जितः । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि' इति विष्णुधर्मोत्तरवचने उभयपक्षीयदशम्यां मांसमैथुनवर्जनमिति वाच्य वान. प्रस्थस्थापि ऋतो मैथुनसम्भवात् अत एव पुराणे ऋषिकुमारा: श्रूयन्ते 'पुत्त्रेषु भायां निक्षिप्य वनं गच्छेत् सहैव वा'। इति मनुवचनाच। तस्य मांसभोजनमप्याह कात्यायन:। 'अथ वानप्रस्थहैविध्य पचमानका अपचमानकाच इत्युपक्रम्य कियहरे खतो वसितस्याममांसं व्याघ्रहकश्येन इतमित्येव:
For Private and Personal Use Only