________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वास्तुयागतत्त्वम्।
४१७ जले 'प्रतिमास्थानेष्वप्स आवाहनविसर्जनवजम्' इति बौधायनवचनात्। एषां विशेषबलिमंत्यपुराणदेवीपुराणायामुक्तोऽपोदानीन्सनैनं व्यवयिते इति न लिखित: किन्तु मत्स्यपुराणोता पायसवलिर्दीयते। तथाच 'पायसं वापि दातव्य खनाना सर्वत: क्रमात्। नमस्कारेण मन्त्रेण प्रणवाद्येन सर्वतः'। अतएव प्रागुक्तशारदावाक्ये पायसमात्रमुक्तं तेन एष पायसवलिः ओम् ईशानाय नमः इत्यादिना प्रयोगः। न च वाचस्पतिमिश्रोक्त प्रमुकदेवतायै एष पायसवलिनम इत्यादि प्रणवादिनमस्कारान्तवनामरूपमन्त्रमध्ये देय प्रवेशस्यायुक्तत्वात्। तथाच ब्रह्मपुराणम् ‘ोङ्कारादिसमायुक्तं नमस्कारान्तकौर्तितम्। स्वनामसर्वसत्तानां मन्त्र इत्यभिधीयत' । देवीपुराणम् ‘एवम्भूतगणानान्तु बलियस्त कामिकः । एतान् प्रपूजयेद्देवान् कुशपुष्पाक्षतेवधः। एवं प्रपूजिता देवाः शान्तिपुष्टिप्रदा नृणाम् । अपूजिता विनिघ्नन्ति कारकं स्थापकं तथा । एतान् प्रपूजयेद्दवान् कुशपुष्पाक्षतेस्तथा'। अत्र प्रपूजाया नित्यत्वाहक्ष्यमाण मत्स्यपुराणवचने होमानन्तरं बलिदानाच्च बले: काम्यत्वात् पुजाहोमानन्तरं बलिदानाचारः। तथाच 'ब्रह्मस्थाने तथा कुर्याद्वासुदेवस्य पूजनम्। श्रियाश्च पूजनं कुाहासुदेवगणस्य च। गन्धाध्य पुष्पनैवेद्यधूपायैः सुरसत्तम। ततः सम्पजयेत्तस्मिन् सर्वलोकधरां महोम्। सुरूपां प्रमदारूपां दिव्याभरणभूषिताम्। ध्यात्वा तामच येह वीं परितुष्टां स्मिताननाम्। ततः स्त्रनाममन्त्रेण सर्वदेवमयं हरिम्। ध्यात्वा समच येत्तत्र यजेहास्त, नरं परम्। ब्रह्मस्थाने ततो विहान् कुर्यादाधार मक्षतैः। तस्मिन् संस्थापयेत् कुम्भं वर्दिन्या सह पूरितम् । हैमं वा राजतं पात्रं मृण्मयं वा दृढ़ शुभम् । सर्ववौजौषधीयुक्त
For Private and Personal Use Only