________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१६
वास्तुयागतत्वम्।
पदस्खः पुष्पदन्तकः। पयसां पतिरकस्थोऽसुरो हिपदसखितः। शोषश्चैकपदो शेयः पापोऽपद उच्यते। रोगवाई। पदो जेयो नागथापि पदे स्थितः। दिपदे विश्वकर्मा तु भल्लाट: पदसंस्थितः। यज्ञेश्वरः पदो यो नागराड्हिपदस्थितः । पदस्था श्रीमहादेवी दितिश्चाईपदस्थिता। आपातः पाद संस्थः स्यादापवत्सः पदस्थितः। चतुष्पदस्थो विज्ञेयचार्यमा मध्यपूर्वगः। सावित्रस्त पदो जेयः सावित्री पद. संस्थिता। ततो विवस्वान् विजेयश्चतुष्कर्मध्यसंस्थितः । इन्द्रचन्द्रात्मजश्चोभावेकैकपदसंस्थितौ । मिश्रश्चतुष्पदश्चैव पश्चिमे च व्यवस्थितः। रुद्रश्चैकपदो जेयो राजयक्ष्मा पदस्थितः । धराधरश्च विजेय उत्तरे च चतुष्पदे । चतुष्पदचतुर्हस्तो मध्ये जयः प्रजापतिः। देवतानुचरा वाह्ये सर्वे चान्तस्तथासुराः । एवं प्रग्या कोष्ठानि रजसा पूर्यदेशिकः। एतेषामैव देवानां बलिं दद्यात्तु कामिकम्'। रजसेति पञ्चवर्णरजोभिः । तथाच शारदायाम् 'उक्तानामपि देवानां पदान्यापूर्य पञ्चभिः । रजोभिस्त यथोतोभ्यः पायमात्रैर्बलिं हरेत्'। तथा 'पोतं हरिद्राच णं स्यात् सितं तण्डलसम्भवम् । कुसुम्भच मरणं कृष्ण दग्धपुलाकजम्। विल्वादिपत्र श्याममित्युक्तं वर्णपञ्चकम्'। स्यात् पुलाकस्त च्छधान्ये इत्यमरोत: तुच्छम् अपक्लष्टम्। 'पूज्या मण्डलबाह्ये तु पूर्वाग्नेय्याटिक क्रमात् । स्कन्दश्चैव विदारौ च अर्यमा पूतना तथा। जम्मका पापराक्षस्यौ पिलिपिनश्चरक्यपि'। मण्डलकरणासामध्ये शालग्रामसमीपे सर्वे पूज्या: 'शालग्रामशिलारूपी यत्र तिष्ठति केशवः । तत्र देवासुराः यक्षा भुवनानि चतुर्दश'। इति पद्मपुराणवचनात्। तत्रावाहनविसर्जने न स्तः । 'शालग्रामे स्थावरे च नावाहनविसर्जने' इति वचनात् तदसम्भये घटादि
For Private and Personal Use Only