________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुचितत्त्वम्।
४०३ अथ गर्भास्राबाशौचम्। गर्भस्राव तु स्त्रीणामेव षण्मा. वाभ्यन्तरेऽशौचं तञ्च लौकिके कर्मणि माससमसंख्यदिनव्यापकं हितीयमासावधिमाससमसंख्यदिनाधिकैकदिनात् परं ब्राह्मण्या वैदिककर्माधिकारः क्षत्रियाया दिनदयात् वैश्याया दिनत्रयात् शूद्रायास्तु षष्ठदिनादिति हारलताप्रभृतयः । सप्तमाष्टममासीयगर्भपतने स्त्रीणां संपूर्णाशौचं निर्गुणसपिण्डा. नामहोरात्रं यथेष्टाचरणसपिण्डानां विरात्रं तत्र जातस्य तद्दिन एव मरण ज्ञेयं द्वितीयदिनादौ तु मरखे नवमादिमासजातबालकवत्। इति गर्भस्रावाशौचम् ।
अथ स्त्राशौचम्। कन्यायाः जन्मप्रभृतिदिवर्षाभ्यन्तरमरणे सद्यःशौचं तदुपरि वाग्दानपर्यन्तमेकाहः। वाग्दानोत्तरविवाहपर्यन्तं भर्तृकुले पिटकुले च त्रिरात्रम्। विवाहोत्तरन्तु भर्तकुल एव संपूर्णाशौचम्। सोदरभातस्तु कन्याया आदन्तजन्ममरणे सद्यःशौचम्। आचूड़ादेकरात्र कम् आप्रदानाचिरात्र स्यादिति विशेषः दत्तकन्यायाः पिटरहे प्रसवमरणयोः पित्रोः शयनादिसंसर्गशून्येऽपि त्रिरात्र तथाविधबन्धुवर्गाणामेकरात्रम्। __ अथ वालाद्यशौचम्। नवमादिमासजातबालकस्याशौचकालाभ्यन्तरमरणे मातापित्रोरस्पृश्यत्वयुक्तं तदेव जननाशौचं ज्ञातीनान्त्वशौचं नास्ति नवमा दिमासमतजातयोस्तु कन्यापुत्रयोः पित्रादिसपिण्डानां जननाशौचम्। तच्च ब्राह्मणानां दशाहं शूद्राणां मासम्। पुत्रजन्मनि मुखदर्शनात् पूर्व सचेलम्रानं कृत्वा पुत्रजन्म मुखदर्शननिमित्तहदिवाई कत्वा अशक्ती तदक्कत्वा ब्राह्मणेभ्यश्च यथाशक्ति दत्त्वा बालकाय काञ्चनं दत्त्वा मुखं पश्येत्। ततः पुन: सचेलनानम् । अन्याशौचमध्येऽपि जातकर्मषष्ठीपूजे कर्तव्ये। पुत्रजन्म
For Private and Personal Use Only