________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
एकादशीतत्त्वम्।
छन्दोगैर्योषितां बाई न कर्तव्यम्। 'न योषिभाः पृथक दद्यात् अवसानदिनादृते। खमपिण्डमात्राभ्यस्तृप्तिरासा यतः स्मृता' इति छन्दोगपरिशिष्टनिषेधात्। न च प्रक योषियोऽपृथद्यादिति वाच्यम्। सथात्वे अवसानदिनाटते इति व्यर्थं स्यात्। तथाहि परिप्राप्त योषितां पाऽपृथकत्वं विधीयते किंवाऽपृथक्त्वविशिष्ट बाई विधीयते। नान्यः अमावास्यादौ योषिहानाप्राप्तौ कथं तदनूद्यापृथक्त्वमाव. विधानम्। नान्यः तथापि अवसानदिनाहते इत्यस्य वैयर्थ्यापत्तेः। अवसानदिने तु 'स्त्रीणामप्येवमेवैतदेकोद्दिष्टमुदा. हृतम्। मृताहनि यथान्यायं नृणां यदयदिहोदितम्' इति मार्कण्डेयपुराणोयेन पृथक्वाइमात्या विशिष्टविधित्वानुपपत्तेः तस्मादवसानदिनाहते इति वाक्यस्य सार्थकत्वाय पृथक्पदमेनानुवादः। न च वैपरीत्यं सथात्वे वाक्यानुवादः स्यात्। अव्ययपदानुवादे तु विभक्ते नुवादकतेति। एव. मेवेशानाचार्याः। 'यस्मान्मादशाहन्तु पूर्व स्यात् पितृणां तदनन्तरम्। ततो मातामहादीनां वृद्धौ श्राइवयं स्मृतम्' इति शातातपवचनात्। 'अन्वष्टकास्वष्टकावदग्नी हुत्वा दैवपूर्व मात्रे पितामह्य पूर्ववत् ब्राह्मणान् भोजयित्वा' इति विष्णुसूत्रात् 'मृताहनि तु कर्तव्या स्त्रीणामप्युत्तरा क्रिया'। इति विष्णुपुराणात्। वृधन्वष्टकावसानदिननिमित्तकश्राद्धेषु छन्दो. गोऽवसानदिनव्यतिरेकेण योषिदितरेभ्यो दद्यात् ततस योषिदितरेभ्य इति विशेषणसार्थकत्वाय तासां दानाभावे तत्र तयोषितं कथं टप्तिरित्यपेक्षयामाह खभर्विति। ननु अमावास्यादिसामान्यनिमित्तकाहे कथं तासां दृप्तिरिति चेत् 'मपिण्डीकरणादूर्ख यत् पिटभ्यः प्रदीयते। सर्वेष्वंशहरा माता इति धर्मेषु निययः' इति शातातपवचनाब् ।
For Private and Personal Use Only