________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् ।
३३
वाच्यम् । तस्यासक्रत्त्वेन येषां नियतकरणमुक्ताम् तत्परत्वाबत्वनियतपुनःकरणकर्मपरम्। अतएव यानि कर्माणि पुनः पुनः प्रतिदिनं प्रतिमासं प्रतिवत्सरं क्रियन्ते वैश्वदेवलिकर्मदर्शपौर्णमासश्रावण्याग्रहायण्यादौनि तेषु प्रथमप्रयोग एव श्राद्धं मारपूजा चेति परिशिष्टप्रकाशप्रभृतिभिर्नियत पुन: पुनः कर्मस्खेव विषयो दर्शितः। विष्णुपुराणेऽपि । 'नामकर्मणि बालानां चूडाकर्मादिके तथा। इत्यत्र बालानामिति बहुत्वेन निर्दिष्टम्। अतएव ब्रह्मपुराणम्। विवाहस्य शुद्धत्वे श्राई हेतुरित्याह। यथा 'नान्दीमुखेभ्यः श्राद्धन्तु पिटभ्यः कार्यमृदये। ततो विवाहः कर्त्तव्यः शुद्धः शुभफलप्रदः'। अतएव मुखदर्शनावृत्तौ श्राहावृत्तिप्रसङ्गः स्यात् विवाहवदिति श्राइविवेकः। एतेन पुचविवाहादौ वृद्धि श्राद्धं नैमित्तिकमित्य क्तमिति निरस्तम्। 'सपितुः पिट कत्येषु अधिकारो न विद्यते' इति छन्दोगपरिशिष्टेन जीवत्पिटकस्यावश्यकश्राद्धनिषेधेऽपि अङ्गत्वादेव च निषेकादौ जीवत्यिटकेणापि जीवन्तमतिदद्यादित्यनेन पितामहा. दौनां वृद्धिवादमावश्यक क्रियते। जीवत्यिटकादिना क्रियमाणे श्राद्धे पिनादिस्थाने पितामहायुहमाह विष्णुधर्मोत्तरम्। 'येषां श्राद्धं पिता दद्यात् तेषामेव स कारयेत् । मन्त्रोहेण न कर्त्तव्यं तेन थाई नराधिप'। स जौवत्पिटकः प्रतिनिधिना तु अमुकस्य पितुरित्यभिलापे योज्यं मन्त्रे तु न तथेति वक्ष्यते। एवञ्च वृद्धिश्राद्धं यदर्थ कृतं तत् कर्म चेत् तहिने विघ्नान क्रियते तदा दिनान्तरे तत् कर्मणि पुनधि श्राई करणीयं 'प्रधानस्याक्रिया यत्र साङ्ग तत् क्रियते पुनः। तदङ्गस्याक्रियायान्तु नात्तिर्न च तत् क्रिया' इति छन्दोगपरिशिष्टेन साङ्गकरणाभिधानात्। नान्दोमुखे
For Private and Personal Use Only