________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२
एकादशीतत्त्वम् ।
न्तेन द्दिजस्त्रियः । यं यं गर्भं प्रसूयन्ते स गर्भः संस्कृतो
भवेत् । अत्र सकृत् संस्कृतपात्रजातानां सर्वेषां संस्काराभिधानेन प्रत्येक कृतजातकर्मादिसंस्काराणां सुतरां सक्कत्त्वं सकृत् कृते कृतः शास्त्रार्थ इति न्यायाच्च । पिण्डानिति
परं कन्यापुत्र विवाहेषु इति श्रादविधायक विष्णुपुराणैकवाक्यत्वात् । तदेकवाक्यतया च सुतपदं कन्यापुत्त्रपरम् । उद्दहनादित्यत्र अभिविधावाङ । तदभावेऽपि संस्काय्र्यक्रमवाधकस्य पितुरभावेऽपि पुनरन्यः संस्काव्यः सपिण्डादिर्वा तत्क्रमात् । 'चित्रकर्म यथाने कैरङ्गैरुन्मौल्यते शनैः । ब्राह्मण्यमपि तद्दत् स्यात् संस्कारैर्विधिपूर्वकैः' । इत्याङ्गिरसोक्तफलभागितया प्रधानस्य संस्काय्र्यस्य क्रमात्तेषां पितॄणां दद्यात् । ततश्च संस्काय् पित्रादित्रय मातामहादिवयेभ्यः श्राद्धं कुर्य्यात् । न तु संस्काय्यपितरमादाय तेषां पितुः सम्प्रदानभूतानां पित्रनुप्रवेशात् वृद्धप्रपितामहेतरपञ्चानामिति नारायणोपाध्यायमतं युक्तमिति वाच्यम् । पित्रनुप्रवेशेन संस्काय्र्यस्य पितृपितामहप्रपितामहानां श्राडे तन्मातामहपक्षस्यैव 'पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम्' इत्यनेन युक्तत्वात् । न वा तेषां संस्कर्त्तृपितृणां संस्काय पितुः पितृगणमातामहगणानां वा ग्रहणं तत्क्रमादित्यनुपपत्तेः । श्राद्ये संस्कर्तुरनुपात्तत्वात् तच्छब्देनानुपस्थितेः द्वितीये तेषामित्यनेनैव तेषां प्राप्तिस्तत् क्रमादित्यनुवादकतापत्तेः । एवञ्च श्रभ्युदयमात्त्रस्य नित्यत्वात् दितोयविवाहेऽपि इतराङ्गवत् वोढराभ्युदयिकश्रावमावश्यकम् । सर्वाण्येवान्वाहाय्वन्तौत्यत्र मत्मर्थीयेनाविशेषादङ्गत्व प्राप्तेः । न च 'असकृत् यानि कर्माणि क्रियेरन् कर्मकारिणा । प्रतिप्रयोगं नैव स्युर्मातरः श्राद्धमेव च' इति छन्दोगपरिशिष्टान्न तत्र वृद्धिश्राद्धमिति
P
For Private and Personal Use Only