SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । इति । अत्रैव गोत्रजानामहःस्मृतमिति जावालवचनं ततः परं सर्वथा समानोदकतानिवृत्तेः। मानमात्रमिति नावा शुयन्ति गोत्रजा इति वृहस्पत्युतात्वादिति। ___अथ अशौचसंक्षेपः। जननाशौचमध्ये जननाशौचान्तरपाते पूर्वाशौचकालेन शुद्धिः । पूर्णाशौचान्तदिने पूर्णाशीचान्तरपाते अन्तिमदिनोत्तरदिनहयेन शुद्धिः । अन्तिमदिवसोत्तरप्रभाते सूर्योदयात् पूर्व तत्पाते सूर्योदयावधि दिनत्रयेण शुद्धिः। एवं मरणाशौचेऽपि वड़ितदिनयत्रयाभ्यन्तरे प्रशौचान्तरपाते पूर्वेणैव शुद्धिः। अशौचत्रितयान्तकत्यमेकदैव। तत् द्वितीयदिनकृत्यं तत्परदिने अत्र दशमदिनतत्प्रभातयोः पितृमातृभत्तु मरणे तु न दिनयत्रयाच्छुद्धिः किन्तु स्वाबध्येव सम्पर्णाशौचमिति जातिजननाशौचमध्ये स्वपुत्रजनने पूर्वार्द्ध पूर्वेण परार्द्ध परेण शुद्धिः। एवं ज्ञातिमरणमध्ये पिलमा भर्तमरणे पूर्वार्द्ध पूर्वाशौचकालेन परा? पराशौचकालेन शुद्धिः। स्वपुत्रजननाशौचान्तिमदिनतप्रभातयो तिजनने पिटमाटभक्त मरणाशौचान्तिमदिनतत्प्रभालयो तिमरणेऽपि न दिनयत्रयवृद्धिः। स्वपुत्त्रयोऽस्तु तथा जनने मातापिनोस्तु परस्परं तथा मरणे च दिनयत्रयहद्धिः। जननाशौचयोस्तु सन्निपाते पूर्वजातो यदाशौचास्यन्तरे मृतस्तदा मपिण्डानां सद्य:शौचेन पूर्वाशौचस्य नाश: तन्नाशादेव परजातमापिटव्यतिरिक्तानां परजननाशौचस्य निवृत्तिः। परजातमरणे तु न तथा तस्य पूर्वजननावधिस्थायित्वादिति गुरुचरणाः। एवं द्वितीयजातपित्रोऽस्तु पूर्वाईजातमरण पूर्वाशौचकालावधि अङ्गास्पृश्यत्वयुक्तमशौचं पराईजातमरणे तु स्वावधि जननाशौचमङ्गास्मृश्यत्वयुक्तमिति औत्सर्गिकसमसंख्यदिवसीय जननमरणाशौचयोः For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy