SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । ३८८ सत्वाश्च । रेतः शोणितपरिणामरूपत्वादपत्यगणैरस्य भवतु वा तथा पत्या सह पना एकशरीरान्भकतया प्रत्यक्षबाधितत्वात् कथं सपिण्डा मातामहादौनां विशेषवचनाभावात् सपिण्ड त्वेन दशाहाद्यशौच प्रसङ्गाच्च मातामहादौ सापिण्डास्व लोकविरुडत्वाच्च भवतु वा तथा शरीरद्वारा सापिण्डं तथापि वचनात् यथासप्तान्तर्गतत्वं तन्त्रं तथा गोत्रतः साप्तपौरुषीति वचनात् गोत्रैकमपि प्रागुक्तवचनात् कन्यायास्त्रिपौरुषम् ऊढ़ायाश्च भर्तृसपिण्डनेन सापिण्डयमिति चेत् तदेतन्मतेऽपि व्यवस्थायां न क्षतिरिति अतएव सुमन्तुवचनाभिहितं यद्दशमपुरुषपर्यन्तमशौचं तत्सप्तम पुरुषाभ्यन्तराशौचान्धूनं त्रिराव' यथा ब्राह्मणानामेकपिण्डवधानामादशमाधर्मविच्छित्तिर्भवति श्रसप्तमात् ऋक्थविच्छित्तिर्भवति आतृतीयात् स्वधाविच्छित्तिर्भवति श्रन्यथा पिण्डाशौच क्रियाबुच्छेदात् ब्रह्महत्यातुल्यो भवतीत्यस्यार्थः । एका समानापिण्डस्वधा येषां ते तथा यथैकोद्दिष्टस्य पिण्डे तु अनुशब्दो न युज्यते इत्यत्रानुशब्देनानुशब्द युक्तमन्त्रो लक्ष्यते अनुयुक्तमन्त्रस्तु ये चात्रत्वा मनुयांश्च त्वमनु तस्मै ते स्वधा इति तथा पिण्डस्वधाशब्देन पिण्ड सम्बन्धिस्वधा शब्दयुक्त मन्त्र करण क देयजलं लक्षितम् । तथाच ऊर्जं वहन्तोरमृतं घृतं पयःकौलालं परिस्रुत' स्वधास्य तर्पयत मे पितॄन् इत्यनेन पिण्डान् सि दित्युक्तम् । ततश्च एकपिण्डस्वधानां समानोदकानामित्यर्थः । अतएव मनुः । 'जन्मन्ये कोदकानान्तु विरात्रात् शहिरिष्यते' । विष्णुपुराणं 'मातृपक्षस्य पिण्डेन सम्बन्धा ये जलेन वा । मातृपक्षस्य मातामहपक्षस्य पिण्ड ेन सम्बन्धाः जलेन सम्बन्धाः समानोदका इति' श्राद्धविवेकेऽपि व्याख्यातम् । 'असम्बन्धा भवेदु या तु पिण्डेनैवोदकेन वा' इति विवाहेऽप्य ुक्तम् अत्र For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy