________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७८
शुद्दितत्त्वम् ।
श्रुतेः स्वयं होम इति प्रागुक्तश्रुतेश्च निवोजसङ्कोचापत्तेः । यद्यपि तत्तत्शाखोक्तावगतो दक्षिणाभेदस्तथापि चाकाङ्क्षितत्वात् सर्वशाखाप्रत्ययमेकं कर्म इति न्यायात् सर्वत्राप्यन्वेति । तर्फि विदध्याद्दौत्रमन्यश्चेदित्यस्य का गतिरिति चेत् । होमे विशिष्य नाभिहिता तत्र ब्रह्महोतृभ्यां होमदक्षिणा विभाज्य ग्राह्या अयस्काराय इति त्रिशूलचक्रस्पष्टोक गोपालाय । तथा छन्दोगपरिशिष्टम् । 'ततोऽरुणेन गन्धेन मानस्तोक इतोरयन् । वृषस्य दक्षिणे पार्श्वे विशूलाई समुल्लिखेत् । वृषोह्यसौति सत्र्येऽस्य चक्राङ्गमपि दर्शयेत् । तप्तेन पश्चादयसा स्पष्टौ तावेव कारयेत् । अङ्गनन्तु स्फिग्इये। स्फिचोरङ्गनमिति वच पडतो लिखनात् । यत्तु वाचस्पतिमिश्रेण वृषभोऽयं हरिहरमूर्त्तिश्चक्रत्रिशूलधारित्वात् । तत्रापि दक्षिणभागो हरेरुत्तरभागो हरस्येति युक्तेः तथाच दक्षिणहस्ते चक्रं वामहस्ते त्रिशूलम् इति सिद्ध्यति न हि पादेनास्त्रधारणं युज्यत इत्युक्तम् । तत्र वाचनिकेऽथे युक्तेरनवकाशात् । अत्र 'गोयते सूर्य्यनामेति विवाहे योजक: स्मृत:' इति कपिलेन गोयसेऽग्नः सूर्यनामाभिधानात्तद्धर्मग्राहित्वात् वृषोत्सर्गहोमेऽपि तथा इति केचित् । तब उपदेशेनातिदेशस्य बाधात् । वृषोत्सर्गहोमस्य पाकसाध्यत्वात् तत्राग्नः साहसनामत्वं प्रायश्चित्ते विधुश्चैव पाकयज्ञे तु साहस:' । इति गोभिलपुत्रकृतग्टह्या संग्रहवचनात् । प्रायवित्ते प्रायवित्तात्मक होमे विधुनामाग्निः । ततच प्रकृत होमानन्तरं तद्वैगुण्य जन्यपापचय कामस्तत्तद्वेदोक्तप्रायश्चित्त सकल्पयेत् । तथाचाहतुः शङ्कलिखितौ । 'प्रत्येक नियतं कालमात्मनो व्रतमादिशेत् । प्रायश्चित्तमुपासीनो वाग्यत 'स्त्रिसवनं स्पृशेत्' इति । प्रत्येकं नियतं कालमिति तत्तद्
For Private and Personal Use Only