________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम्।
३७३ तस्त्र तुल्यवया गौरित्यनुपपत्र तथापि अत्र तच्छन्दे न प्रक्रान्तशूलगवप्रक्रम्यमाणदृषोत्सगें पशु: परामृष्यते। अतस्तयोर्दक्षिणेयं गोयज्ञप्रकरणपाठात् तत्रापि यथासम्भववयस्का गौदक्षिणेति हरिशर्माऽपि एवम्। एवञ्च वृषोत्सर्गेऽपि वृषतुल्या गौर्दक्षिणा। छन्दोगपरिशिष्टेऽपि 'अथ वृषवत्मतरौणामलङ्कारं वामसी च अचार्याय प्रयच्छेत् गाञ्चेति'। अत्र हषवत्मतर्यलङ्कारवस्त्रयुग्मस्य परिधाग्याहते शुक्ल वाससी हेमपट्टकमिति छन्दोगपरिशिष्टवचनान्तरोक्तान्तभू तोपयो. ग्यस्य प्रतिपत्तिमाचार्याय पूर्वमभिधाय गाञ्चेति पृथगुपादानं तस्मै दक्षिणाथमिति व्यक्तमाह भविष्य । वषतुल्यवयो वर्णो वृषः स्याद्दक्षिणादिजाः। वृषोसगे तु पु मां वै स्त्रीणां स्त्री मौविशिष्यते । एतेन दक्षिणाशून्यमिदमिति ब्रह्मपुराणेंऽपि। स्वधापिटभ्य इत्याद्यभिधाय 'दद्यादनेन मन्त्रेण तिलाक्षतयुतं जलम्। पिटभ्यश्च समासेन ब्राह्मणेभ्यश्च दक्षिणाम्' इति अत्र ब्राह्मणेभ्यो ब्राह्महोत्राचार्यो भ्य इति प्रतीयते । अत्र वृषोत्सर्गमात्रे तन्मन्वकरणकतिलयवयुक्तजलदानश्रुतेः। प्रेतवृषोत्सर्गेऽपि तत्करणं तदङ्गत्वात्। न च शूलगवातिदिष्टगोयनातिदेशात् वषोत्मगेऽपि पावसथ्याग्निमात्रलाभाबिरग्ने. र्नाधिकार इति वाच्यम्। मध्ये गवां सुसमिदमग्निं कवाज्यं संस्कृत्य इह रतिरिति षड़ाज्याहुतीर्जुहोति। इति पारस्करोयसूत्रेऽग्निं कृत्वेत्यनेन लौकिकाग्नेर्लाभात् अन्यथा तदभिधानं व्यर्थं स्यात् श्रतएव कृष्णेनाम्यन्यजन्मनाम् इति सङ्गछते। वाचस्पतिमिश्रास्तु आज्यं संस्कृत्य इह रतिरित्यानन्तर्याभिधानादाज्यसंस्कारानुपदमेव गव इत्यादिषड़ा. हुतयः। तत आधाराज्यभागौ ततस पायसाहुतयो नव ततः पूषा गा इति मन्त्रेण पोष्णहोम इत्याहुः। तत्र गोयनाति
३२-क
For Private and Personal Use Only