________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२
शक्षितत्त्वम्।
रुद्रदेवता स्वर्गः फलम्। ततव खग्रह्योक्तविधिना एकोदिष्ट कुर्यात्।
अथ वृषोत्सर्गविचारः। तत्रौपादानिकतत्त्वनिरासाय कामधेनुकल्पतरुतब्रह्मपुराणम्। 'अथ वृत्ते वृषोत्सर्ग दाता वक्रोक्तिभिः पदैः। ब्राह्मणानाह यत्किञ्चिन्मयोत. सृष्टन्तु निर्जने। तत्कश्चिदन्यो न नयेत् न विभाज्यं यथाक्रमम्। न बाह्यं न च तत् क्षीरं पातव्य केनचित् कचित्' इति। कृत्यप्रदौपेऽप्य वं वक्रोक्तिभिः काकूक्तिभिः। स्वामित्वाजनकहोमाङ्गकवेदमेयत्यागरूपत्वादस्य यज्ञरूपत्वं युक्ता तत्तु भाक्त' देवतोहेश्यकत्वाभावात्। तथाच यनं व्याख्यास्यामो द्रव्यदेवता त्यागस्तदङ्गमितरदिति स्मृतेः। देवतो. हेशेन द्रव्यत्यागो यज्ञपदार्थः सर्वमन्यत्तदङ्गमिति हरिशर्म: व्याख्यात तथाच हारीतः। 'मन्नद्रव्याग्निसंयोगं यज्ञमाहुमनीषिणः'। मन्त्रस्यापि देवताविग्रहरूपत्वात्। पूर्ववचनेनास्य विरोधः। तथाच देवीपुराणीयवास्तुयागे प्राजेशं मन्त्रविग्रहमित्युक्तम्। अतएव मिताक्षरायां विवाहोत्सव. यज्ञेषु इत्यत्र यज्ञे वृषोत्सर्गावित्यु तम्। हैतनिर्णयेऽपि । प्राभ्युदयिकञ्च वृषोम, इष्टित्वेनावश्यकम्। एकादशाहे तु तदिधेर्निरवकाशतयाऽगत्यैवाभ्युदयिकाभावेऽपि वृषोत्सर्गसिद्धिरित्यकम्। उशनसापि 'नार्वाक् संवत्सराहद्विषोत. सगै विधीयते। सपिण्डीकरणादूई वृद्धिलाई विधीयते' इत्या पारस्करण शूलगवमभिधाय एतेनैव गोयज्ञो व्याख्यात इत्यादिना गोयन्नमभिधायन्ते तस्य तुल्यवया गोदक्षिणा इत्युक्त्वाथ वृषोत्सर्गो गोयजेन व्याख्यात इत्युक्तम् । तेन वषोत्सर्गस्य शूलगवतुल्यगोयज्ञातिदेशात् यागत्वमिति । यद्यपि गोयने उपदिष्टपायसेन शूलगवातिदिष्टपश्यनिहत्ती
For Private and Personal Use Only