________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम्।
शक्रशक्तिर्या धेनुरूपास्तु सा श्रिये'। ओम् 'स्वधात्वं पिटसङ्घानां स्वाहा यजभुजां यतः। सर्वपापहरा धेनुस्तस्माछान्ति' प्रयच्छ मे'। ओम् 'सर्वदेवमयों देवीं सर्ववेदमयीं तथा। सर्वलोकनिमित्ताय सर्वलोकमपि स्थिरम्। प्रयच्छामि महाभागामक्षयाय सुखाय च'। इत्युचार्य उत्. सृजेत् प्रतिग्रहे पुच्छधारणम् । १४ । हिरण्यस्याग्निर्देवता दीर्घायुःप्राप्तिः फलम् । १५ । रजतस्य चन्द्रमा देवता उत्तमरूपप्राप्तिःफलम् । १६ । एवमन्यानि तत्तत्कामनया देयानि । वस्तुतोऽत्र जलादिमावदाने तत्तत्फलं तेजसपात्रदाने बहु. कामपानो भवनं फलम्। न तु जलादियुक्तं तैजसपात्रदाने विशेष्यफलमुक्तम्। ततश्च 'नानाविधानि ट्रयाणि धनानि विविधानि च। आयुष्कामेन देयानि स्वर्गमक्षयमिच्छता'। इति यमदेवलवचनात् । स्वर्गकामनयैव पानयुक्ततथाविध. द्रव्यदानं युक्तम्। तथैवम्भूतदाने विष्णुदेवतमिति वक्तमुचितम्। 'तज्ज्ञेयं विष्णदैवत्य सर्व वा विष्णुदैवतम् । इति विष्णुधर्मोत्तरवचनात्। ततो विलक्षणां शय्यां दद्यात् । तत्र स्वर्गफलं नानाभरणैहि जदम्पती भूषयित्वा फलवस्त्र. समन्वित प्रेतप्रतिकतिरूपं काञ्चनपुरुषं शय्यायामारोप्य तां गन्धपुष्पाभ्यां संपूज्य ताभ्यां दिजदम्पतीभ्यां दद्यात्। ततश्च तस्यां तावुपवेशयेत्। ततो दक्षिणां दद्यात् । एवं संक्रान्त्यादौ स्वगामिफले तु ददानौत्यत्र संप्रददे इत्यभिलापे विशेषः। एवञ्चैकशी मिलित वानादिद्रव्य काञ्चनादिधनं वा आयुष्कामेण वर्गकामेन वा एकैकशी द्रव्य तत्तत्फलकामन वा देयमिति। ततो वषोत्सर्गः। स्वग्रह्योताविधिना कार्यः तत्र प्रेतलोकपरित्यागपूर्वकस्वर्गलोकगमनं फलम्। ततश्च पूर्वोक्तविधिना कपिलां दद्यात्। तत्र
For Private and Personal Use Only