SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शचितत्त्वम् । यथा ऋग्व ेदौ 'ओम् क इदं कस्मा श्रदात् कामः कामाया - दात् कामो दाता कामः प्रतिग्रहीता कामः समुद्रमाविशत् । कामेन त्वा प्रतिगृह्णामि कामैतत्ते द्युष्टिरसि द्यौस्वादधातु पृथिवीत्वा प्रतिगृह्णातु' | १ | यजुर्वेदे तु । श्रम् यौत्वा परिदधातु पृथिवीत्वा प्रतिगृह्णातु कोऽदात् कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहोता कामैतत्ते तव कामसता भुष्यामहे' । २ । सामवेदे तु 'ओम् क इदं कस्मा अदात्' कामः कामायादात् कामो दाता कामः प्रतिग्रहौता कामः समुद्रमाविशत् कामेन त्वा प्रतिगृह्णाति कामैतत्ते' । ३ । अथर्ववेदे तु । 'क इदं कस्मा अदात् कामः कामादायात् कामो दाता कामः प्रतिग्रहीता काम: समुद्रमाविशत् कामेन त्वा प्रतिगृह्णात्वन्तरीतमिदं महोत्साहं प्राणेनेति' । ततो दाता ओम् अद्येत्यादि कृतैतत् अमुकदानप्रतिष्ठार्थं दक्षिणामिदं काञ्चनम् अग्निदेवतं तन्मूल्यं वा विष्णुदैवतं तुभ्यमहं सम्प्रददानि इति ब्राह्मणाय दद्यात् । ब्राह्मणासन्निधाने यथासम्भवगोत्रनाम्न ब्राह्मणायेति विशेषः । तुभ्यमिति न देयं भूमौ त्यागजलप्रक्षेपः । एवमन्यत्रापि यथायोग्यमूहनीयम् । 'सुवर्णं परमं दानं सुवर्णं दक्षिणा परा । सर्वेषामेव दानानां सुवर्ण दक्षिणेष्यते' इति वचनात् काञ्चनं दक्षिणा देया । तत्तत् फलकामनायान्तु हेमगर्भतिलानां तत्तत्तिलसमसंख्यवर्षाव च्छित्रस्वर्गलोकमोदनं फलम् । वैतरण्या रुद्रो देवता सर्वपापविनिर्मुक्तिपूर्वक वैतरणी सुखसन्तरणं फलम् । अन्यत्र ओम् 'यमद्दारे महाघोरे तप्ता वैतरणी नदी । तान्तु तत्तुं ददाम्येनां कृष्णां वैतरणीच गाम्' । इत्युच्चाय्य उत्सृजेत् । प्रतिग्रहे पुच्छधारणं भूमेः पूजायां दानवाक्ये च प्रियदत्तेति विशेषणम् । भूमेदेवता For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy