________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
शुद्धितत्त्वम्।
भावे उत्कृष्टचरिते च सदिति प्रयुज्यते। तो यज्ञादी कर्मणि प्रथमतः सच्छब्दः प्रयुज्यत इति षोड़शदानक्रममाहुः साम्प्रदायिकाः। 'भूम्यासनं जलं वस्त्र' प्रदीपोऽव ततः परम्। ताम्बूलच्छवगन्धाश्च माल्य फलमतःपरम् । शय्या च पादुका गाव: काञ्चनं रजत तथा। दानमेतत् षोड़शकं प्रेतमुद्दिश्य दीयते'। अत्र प्रयोगः। अशौचान्तहितीयदिने सूर्योदयानन्तरं स शिरस्कमात्र सात्वा माङ्गल्य वृतादि स्पृष्ट्वा खशाखोक्तशान्तिं कृत्वा ब्राह्मणान् स्वस्ति वाच्य विप्रो जलं चत्रियो वाहनं वैश्यो प्रतोदं शूद्रो यष्टिं स्पृष्ट्वा शुद्धः सन् वैधम्नानादिनित्यक्रियां कुर्य्यात्। ततो हेमग तिलदानं तत्र क्रम: 1 प्रामुख उदम खं ब्राह्मणं गन्धपुष्पाभ्यां संपूज्य । प्रोम् सवस्वतेजसाधारहेमगर्भतिलेभ्यो नमः । इति गन्धपुष्याम्यां तान् पूजयित्वा एतदधिपतये विष्णवे नम इति संपूज्य ब्राह्मणहस्ते जलं दत्त्वा सवस्त्रतेजसाधारहेमगर्भतिलांश संप्रोक्ष्य वामहस्त न धृत्वा तिलकुशजलान्यादाय । प्रोम् तत्सदित्युच्चार्य अमुके मासि अमुकपक्षे अमुकतिथी अमुकगोत्रस्य प्रेतस्य अमुकदेवशर्मणोऽशौचान्ताहितीयेऽङ्गि अमुकगोत्रस्य प्रेतस्य अमुकदेवशर्मणः स्वर्गकाम एतान् सवस्त्र. तैजसाधारहेमगर्भतिलान् विष्णुदैवतान् अमुकगोवाय अमुकदेवशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददानि इति मम्प्रदानब्राह्मणहस्त जलं दद्यात्। एवमेव पिटदयितादानसागरयोः। खगामिफले तु सम्प्रददे इति। तिलानां मुष्टिमादाय हेमतेजसपात्रयोः करमध्यात्मकाग्नेय तीर्थेन वस्त्रस्य दशान्तग्रहणपरिधानाभ्यां प्रोमित्युवा प्रतिगृह्य खस्ति इत्यु त्वासावित्री पठित्वा एते सवस्त्रतैजसाधारहेमगर्भतिला. विष्णुदेवताका इति वदेत्। ततो यथाशाखं कामस्तुतिं पठेत् ।
For Private and Personal Use Only