________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुदितत्त्वम् ।
हेमगीस्तिलानप। यावन्तस्तं तिला: स्वर्गे तावत् कालं स मोदते'। महाभारते 'कल्यमुत्थाय यो विप्रः स्नातः शक्ल न वाससा। तिलपानं प्रयच्छन् वै सर्वपापैः प्रमुच्यते । एताभ्यां वचनाभ्यां मिलितदानं प्रत्येकवचनोक्तादानं वा प्रतीयते यदि मरणात् प्राक् वैतरणी न दत्ता तदेदानों दातव्या। 'कृष्णां वैतरणीं धेनु यः प्रयच्छेत् द्विजातये। सर्वपापविनिर्मुक्तो वैतरणी तरते सुखम्' इति स्म ते: वैदिककर्ममात्रे तु ओम् तत्सदित्युच्चार्य दद्यादित्याह। भगवहौता। 'ओम् तत्सदिति निर्देशो ब्रह्मण स्त्रिविधः स्मतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता: पुराः। तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रिया। प्रवर्तन्ते विधानोक्ताः सतत ब्रह्मवादिनाम् । तदिति अभिसन्धाय यज्ञदानतपःक्रिया। दानक्रियाश्च विविधा क्रियन्ते मोक्षकाझिभिः। सद्भावे साधुभावे च सदित्य तत् प्रयुज्यते। प्रशस्त कर्मणि तथा सच्छब्दः पार्थ युज्यते । ओम् तत्मदिति त्रिप्रकारो ब्रह्मणो जगदीश्वरस्याभिधानं मुनिभिश्चिन्तितम्। यस्यायं त्रिविधो निर्देशः तेन परमामना ब्राह्मणादयो निर्मिताः। यस्मादेवं ब्रह्मणो निर्देशस्तस्मादोमित्युदाहृत्य उच्चायं कृता यज्ञाद्याः सततम् अङ्गवैकल्येऽपि प्रकर्षण प्रवर्तन्ते साङ्गा भवन्ति। व्यक्तं योगियाज्ञवल्काः। 'वाच्यः स ईखरः प्रोक्तो वाचकः प्रणवः स्मृतः । वाचकेऽपि च विज्ञाते वाच्य एव प्रसीदति। तथा 'यन्यून. वातिरिक्तञ्च यच्छिद्र यदयजियम् । यदमेध्यमशुद्धच यातयामञ्च यद्भवेत्। तदोङ्कारप्रयुक्तेन सर्वचाविकलं भवेत्' । तदिल्युदाहृत्य इत्यनुषङ्गः। अनभिसन्धाय यज्ञादिकर्मण: फलमिति शेषः। फलाभिसन्धानं विना मुमुक्षुणा कर्म कर्तव्यमित्यर्थः । यतः सतो विद्यमानस्य भावे जन्मनि साधु
For Private and Personal Use Only