________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम्।
खर्गे महीयते' । अङ्गिराः 'बहुभ्यो न प्रदेयानि गौर्य हं शयनं स्त्रियः। विभक्त दक्षिणा एता दातारं तारयन्ति हि। एका कस्य दातव्या न बहुभ्यः कथञ्चन। सा तु विक्रयमापन्ना दहत्यासप्तमं कुलम्'। अन्यदेकमपि बहुभ्यो दातव्यम् । तथाच स्कन्दपुराणं 'राजतं यः प्रयच्छेत्तु द्विजेभ्यो भाजनं शुभम्। स गन्धर्वपदं प्राप्य उर्वश्या सहमोदते'। विष्णुधर्मोत्तरे। 'तथौषधप्रदानेन विरोगस्त्वभिजायते। नन्दिपुराणम्। 'यश्च वेश्म शुभं दद्यात् सर्वोपकरणान्वितम् । विप्राय नियमस्थाय स पूत: सर्वपातकात्'। उपकरणं धान्यादि नियमस्थाय उपवासादिव्रतशोलाय इति दानसागरः। नन्दिपुराणं 'योऽश्व रथं गजं वापि ब्राह्मणे प्रति. पादयेत्। स शक्रस्य वसेल्लोके शक्रतुल्यो युगान् दश। प्राप्यन्ते चैव मानुष्य राजा भवति बुद्धिमान् । उपानही च यो दद्यात् ब्राह्मणाय प्रवासिने। म गजैस्तुरगैर्याति याने पथि यथासुखम्'। याज्ञवल्का: 'भूदीपाश्वान्नवस्त्राम्भस्तिल. सर्पिः प्रतिश्रयान्। नैवेशिकं स्वर्णधुव्यं दत्त्वा स्वर्ग महो. यते'। प्रतिश्रयो ग्टहाद्याश्रयः। नैवेशिकं विवाहोचितद्रव्यम्। धूयाः वलौवादयः। महाभारते। 'अग्नि सकलादेवा: सुवर्णञ्च तदात्मकम्। तस्मात् सुवणं ददता दत्ताः स्युः सर्वदेवताः'। यमः। 'इन्धनानां प्रदानेन दीप्ता. ग्निर्जायते भुवि'। तथा 'गन्धौषधमथाभ्यङ्गमाक्षिकं लवण तथा। य: प्रयच्छति विप्राय मौभाग्यं स तु विन्दति'। मत्स्यपुराणम्। 'पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च । यथाशक्त्या तु राजेन्द्र भोजयेच्च सदक्षिणम् । ततश्चोद्दिश्य पितरम्' इति रामायणवचनात्। अशौचान्त हितोयदिनेऽपि दानानि कार्याणि। तत्र स्मृतिः। प्रेतमुद्दिश्य यो दद्यात्
For Private and Personal Use Only