SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । यूयं कुर्वीतेति श्रूयते। अत्र संशयः किं काम्यस्यैव खादिरता नित्येऽपि स्यात्। उत नेति। तत्र फलार्थ त्वेनानित्यतया नित्यप्रयोगाङ्गता न युक्ता। यत्तु नि त्येऽपि खादिरत्वश्रवणं तत् काम्यस्येव पशबन्धनाश्रयज्ञानार्थम् अतो न नित्वे खादिरतेति प्राप्तेराधान्ताय चतुर्थाध्यायसूत्रम् एकस्य तु उभयत्वे संयोगपृथक्त्वमिति। अत्र संयोग: सम्बन्धमात्रम् एकस्य खादिरस्य क्रत्वर्थत्वपुरुषार्थत्वरूपोभयात्मकत्ववाक्यइयेन क्रतुशेषत्वफलशेषत्वलक्षणसंयोगभेदावगमात्र नित्यानित्यसंयोगविरोधः। न च आश्रयज्ञानार्थं नित्यवाक्यं सन्निधानादेवाश्रयलाभात् अत उभयार्था खादिरतेति। एवं दना जुहोति दघ्नेन्द्रियकामस्य इत्यादावुभयार्थतैव दधित्वस्य हेधा श्रवणात्। ननु विषमो दृष्टान्तः नित्यः स्वादिरः क्रत्वर्थः उपवासस्तु नित्योऽपि पुरुषार्थः। न हि स क्रत्वर्थः क्रत्वङ्गत्वे प्रमाणाभावात् सत्यम्। प्रमाण हयस्य वैरूप्यप्रयोजकास्य केवलपुरुषार्थोपवासेऽपि सत्त्वादवैषम्यम्। यदि च बुद्धग्रा. रोहसदृशो दृष्टान्तोऽपेक्षितस्तदा अग्निहोत्रादिष्टान्तः । न हि स क्रत्वर्थः किन्तु स्वयमेव क्रतुः पुरुषार्थोऽपि। तथाच यावज्जीवमग्निहोत्रं जुहोति इति नित्यत्वबोधकम् अग्निहोत्रं जुहुयात् स्वर्गकाम इति काम्यत्वबोधकं यस्य पर्णमयो जुहरित्यत्र नोभयार्थत्वं हेधाश्रवणाभावात्। अतएव नारायणो. पाध्यायेन दधिखादिरन्यायेन शिखाबन्धोपवीतधारणयोरुभयार्थत्वमुक्तम्। कल्पतरूकतापि ब्रह्मचारिकाण्डे पञ्चमादिषु येषु वर्षेषु नित्योपबन्धः काम्योपबन्धनश्च श्रूयते ते संयोग. पृथक्त्वन्यायेन नित्याः काम्याश्च। यथा पेठोनमिः। गर्भ पञ्च मेऽब्द ब्राह्मणसुपनयेत्' । उपनीय इत्य नुवृत्तौ श्राप स्तम्बोऽपि। 'अथ काम्यानि मप्तमे ब्रह्मवर्चसकामम् अष्टमे For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy