SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । २६१ चार: सर्वथा समीचीनः । गङ्गावाक्यावल्यप्य वं याज्ञवल्काः 'प्रतिग्रहसमर्थो हि नादत्ते यः प्रतिग्रहम् । ये लोकादानशीलानां स तानाप्नोति पुष्कलान्' । अपवादमाह स एव । 'कुशाः शाकं पयो मत्या गन्धाः पुष्यं दधि चितिः । 'मांसशय्यासनं धानाः प्रत्याख्येयं न वारि च' । चकाराद् गृहादि 'शय्याग्टहान् कुशान् गन्धानपः पुष्प' मणीन् दधि । मत्स्यान् धानाः पयो मांसं शाकञ्चैव न निर्नुदेत्' इति वचनात् । मणीन् विषादिनिवारकान् । तथा 'एधोदकं फलं मूलमन्त्रमभ्युद्धृतञ्च यत् । सर्वतः प्रतिगृहीयात् मध्वधाभयदक्षि गाम्' | अभयदचिणाम् अभयदानम् अभयप्रद इति वक्ष्यमाणवचनात् । अभ्युद्धृतम् अभ्यर्थ दत्त किमिति न प्रत्याख्येयम् इत्याह । तथाच मनुः 'अयाचिताहृत' ग्राह्यमपि दुष्कृतकर्मणः । अन्यत्र कुलटाषण्डपतितेभ्यस्तथा द्दिषः । एतद्वचनं याज्ञवल्कास्येति मिताचराकुल्लकभट्टमाधवाचार्य्याः । मनोरिति शूलपाणिः । भरदाजः । 'अयाचितोपपत्रे तु नास्ति दोषः प्रतिग्रहे । अमृत तद्दिदुर्देवास्तस्मात्त' नैव निर्नुदेत्' 1 अपवादान्तरमाह स एव । 'देवातिथ्यर्चनक्कते गुरुभृत्यार्थमेव च । सर्वतः प्रतिग्टह्नीयादात्मवृत्त्यर्थमेव च' । भृत्या भरणीयाः भार्य्यापुत्रादयः । तथा मनुः । ' वृद्धौ च मातापितरौ साध्वी भार्य्या सुतः शिशुः । अन्यकाय्र्यशत कृत्वा भर्त्तव्या मनुरब्रवीत्' । श्रात्मवृत्त्यर्थं जीवनमात्रम् । 'न तु तृप्येत् स्वयं ततः' इति मनुस्मृतः । प्रयोगसारे । 'प्रतिग्रहं न गृह्णीयादात्मभोगोपलिप्सया । देवतातिथिपूजार्थं धनं यत्नादुपार्जयेत्' । अङ्गिराः 'कुटुम्बार्थे' हिजः शूद्रात् प्रतिगृहीत याचितम्। क्रत्वर्थमात्मने चैव न हि याचेत कर्हि चित्' । अतएव यज्ञार्थे याचकत्वे निन्दामाह याज्ञवल्काः । ३१ - क For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy