________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुचितत्वम्।
'.५८ मातातपः 'पूर्वाभिमुखमाचार्यमभ्यर्थ प्रतिमान्तु ताम्। प्रदद्याद दक्षिणां तौ मध्याले समुपस्थिते' । प्रतिग्रहविधानमाह विष्णुधर्मोत्तरम्। 'भूमेः प्रतिग्रहं कुर्याडूमेः कवा प्रदक्षिणम्'। प्रदक्षिणं न सर्वस्या भूमेः किन्तु तत्रस्थस्याः प्रदक्षिणावर्तमान भूमेरसविधाने तामुद्दिश्य प्रदक्षिणम् । 'कर गद्य तथा कन्यां दासदास्यौ हिजोत्तमाः। करन्तु हदि विन्यस्य धर्मो ज्ञेयः प्रतिग्रहः'। धर्मो धर्मविषयस्यायम् । 'पारुह्य च गजस्योक्तः कणे चाखस्य कीर्तितः। तथाचैकशफानान्तु सर्वेषामविशेषतः। प्रतिग्टहीत गां पुच्छे पुच्छे कृष्णाजिनं तथा। भारण्याः पशवश्चान्ये ग्राह्याः पुच्छे विच. क्षणैः। प्रतिग्रहमथोष्ट्रस्य भारुय च तथाचरेत्। वौजानां मुष्टिमादाय रत्नान्यादाय सर्वतः। वस्त्र दशान्तमादद्यात् परिधाय तथा पुनः। आरुह्योपानही यानमार द्यैव च पादुके। ईशायान्तु रथं ग्राह्यं छत्र दण्डे च धारयेत् । प्रायुधानि समादाय तथा भूयविभूषणम्। वर्मध्वजी तथा स्मृष्ट्वा प्रविश्य च तथा एहम्। अवतीर्य च सर्वाणि जलस्थानानि वै हिजाः। द्रव्याण्यन्यान्यथादाय स्पृष्ट्वा यो ब्राह्मणः यठेत्। प्रतिग्रहीता सावित्री सर्वत्रैव प्रकीर्तयेत्। ततस्तु साई द्रव्येण तस्य द्रव्यस्य दैवतम्' । भूमिर्विष्णुदेवताकेत्यादि कौतयेदित्यर्थः। 'समापयेत्तत: पचात् कामस्तुत्या प्रतिअहम्। विधि धर्ममथो ज्ञात्वा यस्तु कुर्यात् प्रतिग्रहम् । दावा सह तरत्येव नानादुर्गाण्यसौ हिजः'। ब्रह्मपुराणे । 'ब्राह्मणः प्रतिग्रहीयाद् वृत्त्यर्थं साधुतस्तथा। अव्यवमपि मातङ्गतिखलौहाथ वर्जयेत् । कृष्णाजिनहयग्राही न भूयः पुरुषो भवेत्। शय्यालारवस्त्रादि प्रतिया मृतस्य च । नरकात्र निवर्तन्ते धेनु तिलमयीं तथा'। तथा 'ब्रह्महत्या
For Private and Personal Use Only