________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् ।
1 याज्ञवल्काः ।
मताभिलापो न स्यात् । अव ग्रहादीनां नानामुनिभिननानामान्युक्तानि तेषां यत्किञ्चिन्नामैवोल्लेखाय तथाच मत्स्यपुराणम् । 'सूय्यैः सोमस्तथा भौमो बुधजीवसितार्कजाः । राहुः केतुरिति प्रोक्ता ग्रहालोकहितावहाः " 'सूर्यः सोमो महौ पुत्रो सोमपुत्रो बृहस्पतिः। शुक्रः शनैश्वरोराहुः केतुश्चेति ग्रहाः स्मृताः । यत्र तु एकस्य देवस्य पूजादौ विशिष्य नानानामोपादानं तत्र तत एव तान्येवाभिलाप्यानि न तु नामान्तराणि एवं यत्र बहुभिर्मुनिभिर्यत्रामाभिधोयते तत्र तदेव वक्तव्यं तथाभिधानेन श्रुतिस्तचैव तात्पय्यं प्रतीयते । एवञ्च विधिशब्दस्य मन्त्रत्वे भावः स्यादिति न्यायेनापि विधिशब्दस्य विधिवाक्यस्य देवताप्रतिपादकमात्रस्य मन्त्रसम्पादकत्वं बोध्यं योगियाज्ञवल्कोन । 'मित्रो धाताभगस्त्वष्टा पूषाय्यमांशुरेव च । पय्यायनामभिश्चैव एक एव निगद्यतं तथा । 'वाचकेऽपि च विज्ञाते वाच्य एव प्रसौदति । अतएव मनुः । 'वाग्देवत्यैश्य चरुभिर्यजेरंस्त मरस्वतौम्। अनृतस्यै नमस्तस्य कुर्वाणा निष्कृतिं पराम्' । अत्र वाग्देवता सरस्वतीति श्रुतवाक् सरखत्योरेकार्थत्वात् वाग्दैवत्यचरणा सरस्वतौयजनं सङ्गच्छते । अन्यथा नामभेदाद देवताभेदे विरुद्ध स्यात् ते सत्यवचने सम्भाव्यमाने शूद्रविट् चत्रियविप्रबधविषयानृतादिसाक्षिणः । स्मृति: 'नामगोवे समुच्चाय्ये प्राद्म, खो देवकीर्त्तनात् । उदङ्म ुखाय विप्राय दत्त्वान्ते स्वस्तिवाचयेत्' । देवकीर्त्तनादिति स्वचोपे पञ्चमी देवकीर्त्तनं कृत्वेत्यर्थः । ततश्च दाबामुकदैवतं विष्णुदैवतं वा वक्तव्यमिति । विष्णुधर्मोत्तरे 'अभयं सर्वदैवत्य भूमि विष्णुदेवता । कन्यादासस्तथा दासी प्राजापत्या प्रकीर्त्तिता प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः । तथाचैकशफं सर्वं
।
For Private and Personal Use Only
३५५