________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् ।
३५३
मपि जातिपरत्वदर्शनाचौर्येण स्वत्वं प्रतीयते। एतत्तु अत्यन्ताशक्तानाम्। शक्तानां मस्यपुराणे 'गामग्नि ब्राह्मणं शास्त्रं काञ्चनं सलिलं स्त्रियः। मातरं पितरञ्चैव ये निन्दन्ति नराधमाः। न तेषामूर्ख गमनमेवमाह प्रजापतिः। परखं हरते यस्तु पश्चाद दानं प्रयच्छति। न स गच्छति वै स्वर्ग दातारो यत्र भागिनः' । इति सात्त्विकराजसिकवत् फलाभावपरम् अन्यथा प्रागुतहारीतादिवचनाविरोधापत्तेः। शातातपपराशरी। 'सनिकष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत्। भोजने चैव दाने च दहत्यासप्तमं कुलं' वशिष्ठव्यासपराशराः 'यस्य चैक ग्टहे मूों दूरे चैव बहुश्रुतः। बहुश्रुताय दातव्यं नास्ति मूर्ख व्यतिक्रमः' । शातातप: 'मन्त्रपूर्वञ्च यदुदानमपात्राय प्रदीयते। दातुनिश्छिद्य हस्त तोक्नुर्जिह्वां निवन्तति। न ददखेति यो ब्रूयात् देवाग्नौ ब्राह्मणेषु च । तिय्यंग्योनिशतं मत्वा चाण्डाले. वभिजायते'। वशिष्ठः 'परिभुक्तमवज्ञातमपयाप्तमसंस्कृतम् । यः प्रयच्छति विप्रेभ्यस्तद्भस्मन्यवतिष्ठते'। अपर्याप्तं स्वकायाक्षमम्। यम: 'सुवर्ण रजतं तानं यतिभ्यो न प्रयच्छति । न स तत् फलमानोति तत्रैव परिवर्तते' । अत्रैव दृष्टफल एवाघतिष्ठते न स्वर्गादिफलमापोतीत्यर्थः। महाभारते 'पङ्गन्धवधिरा मूका व्याधिनोपहताश्च ये। भर्त्तव्यास्ते महाराज न तु देयः प्रतिग्रहः' । व्याधिना यक्ष्मादिना । व्यासः । 'मातापिलभ्यां यहत्तं यद् दत्तं भ्राटबन्धुषु। आत्मजेषु च यद् दत्त सोऽनन्तखर्गसंक्रमः। पितुः शतगुणं दानं सहस्र मातुरेव च। अनन्तं दुहितुर्दानं सोदये दत्तमक्षयम्'। विशेषयति नारदः 'साक्षित्वं प्रतिभाव्यञ्च दानं ग्रहणमेव च। विभता भ्रातरः कुर्युर्नाविभक्ताः परस्परम् । योऽसद्भाः प्रतिग्टह्यापि पुनः सद्भाः प्रयच्छति। भात्मानं संक्रमं छत्वा परांस्तारयते
For Private and Personal Use Only