________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् ।
व्याजेन ब्राह्मणवेशेन शूद्रादिना। अच्छतामसं इति रत्ना. करः। 'कुशीदक्कषिवाणिज्यशुल्कशालानुत्तिभिः। सतोपकारादाप्तञ्च राजसं समुदाहृतम्' अनुवृत्तिः सेवा। 'श्रुत. शौर्यतपःकन्याशिष्ययाज्यान्वयागतम्। धनं सप्तविधं शुडं मुनिभिः समुदाहृतम्'। श्रुतेनाध्ययनेन शौर्येण जयादिना तपसा जयहोमदेवार्चनादिना कन्यागतं कन्यया महागतं खशुरादेलब्धं शिष्यागतं गुरुदक्षिणादिना याज्यागतम् आविज्यलब्ध अन्वयागतं दायादिभ्यो लब्ध शुडं सात्त्विकम् । पत्र स्वत्वहेतुभूतव्यापाररूपार्जनगणे चौर्य स्थापि निर्देशात चौर्योपात्तद्रव्येऽपि यथेष्टविनियोज्यत्वेन शास्त्रगम्यत्वरूपखत्वमस्तीति प्रतीयते भवदेवभट्टसम्मतोऽयं पक्षः यत्तु 'द्रव्यमस्वामिविक्रीतं पूर्वस्वामी समश्नयात्'। इति याज्ञवल्कोयेन चौरविक्रौतस्यास्वामिविक्रीतत्वमुक्तं तत्रास्वामिपदमप्रशस्तस्वामिपरम् 'अप्राशस्त्य विरोधश्च नञर्थाः षट् प्रकीर्तिताः' इति प्रागुक्तत्वाब तु स्वामित्वाभावपरं प्रागुक्तनारदवचनविरो. धात्। 'ब्राह्मणवं न हर्त्तव्यं क्षत्रियेण कदाचन। दस्यु निष्क्रययोस्तु स्वमजीवन हर मर्हति' इत्यनेन चौरखत्वाभिधानाच्च अतएव याज्ञवल्काः । 'बुभुक्षितल्यहं स्थित्वा धान्यमब्राह्मणाचरेत्'। मनुरपि 'तथैव मप्तमे भक्त भक्तानि षड़न.
ता। अखस्तनविधानेन हर्त्तव्यं होनकर्मणा' इत्याभ्यां वाहोपवासषडुपवासानन्तरं धान्यचौर्यण जीवनाभिधानात्त. दनस्य वलिवैखदेवाहता प्रतीयत इति। व्यक्त हरिवंशीयसप्तव्याधोपाख्याने। 'ते नियोगादगुरोस्तस्य गां दोग्धी सम. पालयन्। क्रूरा बुद्धिः समभवत्तां गां वै हिंसितु तदा। पिटभ्यः कल्पयित्वैनामुपभुञ्जीत भारत। स्मृति प्रत्यवमर्षय तेषां जात्यन्तरेऽभवत्। अत्र गुरोगी हत्वा श्रान चौराणा
For Private and Personal Use Only