________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुदितत्त्वम्।
मनुः 'धर्मार्थं येन दत्तं स्यात् कम्मैचिद याचते धनम्। पञ्चाव च तथा यत् स्यान देयन्तस्य तद्भवेत्' दत्तस्य रहौतस्स भुक्तस्यापि पुनरादानश्रुतेः सुतरां पावस्योपेक्षायां तथेति । उपेक्षया खत्वहानिमाह वृहस्पतिः। 'प्राप्तमात्रं येन भुक्त खौकत्यापरिपन्थिनम् । तस्य तत् सिद्धिमाप्नोति हानिचोपेक्षया तथा'। अतएव प्रतिग्रहीतुस्त्यागात् फलं वक्ष्यते। अन्यत्र हारोतः । 'प्रतिश्रुत्याप्रदानेन दत्तस्य छेदनेन च। विवि. धान् नरकान् याति तिर्यग्योनौ च जायते। वाचा यच्च प्रतिज्ञातं कर्मणा नोपपादितम्। तदनम् ऋणसंयुक्तम् इह लोके परत्र च'। दत्तस्योच्छेदनं स्वयं दत्तस्य द्रव्यस्य प्रतिग्रहौतुर्दानविक्रयादिकं विनाच्छेदं बलात् खीकरणं न तु तहिकोतादेग्रहणम्। तथाच आवमेधिके पर्वणि युधिष्ठिरं प्रति व्यासवाक्य 'दत्त षा भवता मह्यं ताच भूमि ददाम्यहम् । अरण्य दीयतां मेऽद्य आसीत् पूर्वन्तु ते यतः' इति कात्या. यन: 'स्वस्थेनात्तेन वा दत्त श्रावितं धर्मकारणात्। अदत्त्वा तु मृते दाप्यस्तत् सुतो नात्र संशयः'। आर्तन जन्मप्रभृति महारोगिव्यतिरिक्तरोगिणेत्यर्थः। महारोगिणां दाने 'तेषां मध्ये तु यः कुष्ठी गर्हितः सर्वकर्म'। इति प्रागुताभविष्यपुराणीयनिषेधात्। एवञ्च सुमूषुदत्तस्य यहानोपसगवाभिधानं तहर्थितरदानपरम् । स्मतिः। 'सात्वा शुद्ध समे देशे गोमयेनोपलेपिते। वसित्वा वसनं शुद्ध दानं दद्यात् सदक्षिणम्'। अत्र श्राइवल्लेपित देशाभिधानात्। 'यज्ञो दानं तपो जप्यं श्राइच सुरपूजनम् । गङ्गायान्तु कृतं सर्व कोटिकोटिगुणं भवेत्' इति स्कान्दे गङ्गायामिति गङ्गातीरपरमिति गङ्गावाक्यावलो। पाझे 'शिवस्य विष्णोरग्नेश सबिधौ दत्तमक्षयम्'। लिङ्गपुराणे। शालग्रामशिला यत्र
For Private and Personal Use Only