SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुदितत्त्वम् । ३४५ एव पठनीयः। एवमाघ्रालि ते गन्धपुष्यादीनि समर्पयेत्' । गन्धमन्वस्तु सर्वः सुगन्धः इति पुष्पमन्त्रस्तु श्रिया देव्या इति धूपमन्त्रस्तु बनस्पतिरस इत्यादि इटच्च गन्धादिसमर्पणम् । प्रेताय गन्धादिदानानन्तरं ब्राह्मणे कार्य लघुहारीतः । 'सपिण्डीकरणं यावत् प्रेतश्राद्धानि षोड़श। पक्कानेनैव कार्याणि सामिषण हिजातिभिः'। वृहस्पति: 'वस्त्रालङ्कारशय्याढ्यं पितुर्यहाहनायुधम् । गन्धपुष्पः समभयं श्राद्ध. भोक्त्र निवेदयेत्। भोजनञ्चानेकविध कारयेहचना दिभिः' । अथ दानम्। देवलः ‘अर्थानामुदिते पावे श्रद्धया प्रतिपादनम्। दानमित्यभिनिर्दिष्ट व्याख्यानन्तस्य वक्ष्यते' अर्थो द्रव्यम्। उदिते शास्त्र कथिते श्रद्धा देवलोता। 'यथा मत्कृतिश्चानसूया च मदा श्रद्धेति कौर्तिता'। अतएव भगवहोतासु। 'अश्रया हुतं दत्तं तपस्तप्त वतन्तु यत् । असदित्युच्यते पार्थ न च तत् प्रेत्व नेह च'। हरिवंशे वलिं प्रति भगवहाक्यम्। 'अश्रोत्रियं श्रादमधौतमव्रतं त्वदक्षिणं यज्ञमऋत्विजाहुतम् । अश्रद्धया दत्तमसंस्कृतं हविर्भागाः षड़ेते तव दैत्यपुङ्गव'। प्रतिपादनं स्वीकरणं पावायत्तीकरणमिति यावत्। तेन शास्त्रोक्त सम्प्रदान स्वत्वावच्छिन्नद्रव्यत्यागो दानम्। ततश्च उद्देश्य पात्रविशेषो यदि न स्वीकरोति तदा सोपाधित्यागविशेषस्यानिर्वाहान्न दातुः स्वत्व निवर्त्तते इति रखाकरप्रभृतयः । वस्तुतस्तु प्रदानं खाम्यकारणमिति मनूतोर्दानमात्रात् सम्प्रदानस्य तद्विषयज्ञानाभावदशायामपि खत्वमुत्पद्यते। पितुः खत्वोपरमात्तइने गर्भस्थस्येव। तेन शास्त्रोक्तसम्प्रदानखत्वापादकद्रव्यत्यागो दानम्। तथाच दत्तस्य प्रतिग्रहो न तु प्रतिग्रहघटितं दानमिति। व्यतमाह For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy