________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०
शहितत्वम् । किन्तु अशौचकालोत्यवपञ्चशूनाजन्यपापपरं पञ्चशूमा च 'पञ्चशूना ग्रहस्थस्य चूलोपेषण्युपस्करः । कण्डनो चोदकुम्भव बध्यते याश्च वाहयन्' इत्यनेनोक्ता। मल्यपुराणे। 'अशी. चान्तहितीयेऽङ्गि शय्यां दद्यात् विलक्षणाम्। काञ्चनं पुरुषं तहत् फलवस्त्रसमन्वितम्। संपूज्य हिजदाम्पत्यं नानाभरणभूषणैः । वृषोत्सर्गश्च कर्तव्यो देया च कपिला शुभा'। शौचान्तादित्यनाविशेषाहाहमरणतच्छ्रवणजन्याशौचानां ग्रहणं नानाभरणभूषणैरित्यत्र भूषणपदं क्रियापरम्। अतो न पौनरुत्यम्। हिजदम्पती पूजयित्वा काञ्चनं प्रेतप्रतिकतिरूपं पुरुषं कत्वा फलवस्त्र युतं शय्यायामारोप्य भूषितद्विजदम्पतौभ्यां शय्यां दद्यादिति हारलताकृतः। तेषामयमाशयः । सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते इत्युपस्थितं हिज विहाय पावान्तरकल्पने गौरवात्। न च तहदित्यनेन काञ्चन. पुरुषदानस्यापि स्वतन्त्र कर्मत्व स्यादिति वाच्यम्। तस्य प्रेतवदित्वात्। न च तस्यानुपस्थितिरिति वाच्यं प्राकरणिकत्वेन शीघ्रोपस्थितेः। अशौचान्तादित्यत्रापि तथा । अन्यथा अन्याशौचान्ते अन्यस्यापि कर्म स्यात्। अतएवोन प्रेतप्रतिकतिरूपमिति। तेनैतद्दिशिष्टमकं कर्म। अथ व्यतः क्रमयोजनेति चेत् ‘खः कर्त्तास्मोति निश्चित्य दाता विप्राविमन्वयेत् । निरामिषं सक्वडत्या सर्वसुप्तजने सहे' इतिवद्भवतु। स्पष्टमाह पद्मपुराणम्। 'संपूज्य बिजदाम्पत्यं नानाभरणभूषणैः' इत्यन्तं मत्स्यपुराणेन तुल्यमभिधाय 'उपवेश्य च शय्यायां मधुपर्क ततो ददेत्' इति भविष्योत्तरेऽपि । 'कार्यस्तु पुरुषो हैमस्तस्यां संस्थापयेच तम्। पूजयित्वा प्रदातव्या मृतशय्या यथोदिता'। अतएव कर्मवयभेदाय चकारहय. मुत्तराई भिहितम्। ततः शय्यादानकाञ्चनपुरुषदानदिजः
For Private and Personal Use Only