SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धित त्वम्। न विद्यते'। अतएव रजस्वलाश उत्तराशौचाहासत्त्व एवाशौचकालानुरोधात्। तन्मध्येऽपि तथा पिण्ड दानव्यवहार इति। एवमवाग्दत्तायाः कन्याया एकाहेन दशपिण्डदानानुरोधात् । एकाहाशौचं निबन्धभि: कल्पाते तथाच ऋष्यशृङ्गः। 'अपुत्रस्य च या पुत्री सापि पिण्ड प्रदा भवेत् । तस्य पिण्डान् दशैतान् वा एकाहेनैव निर्वपेत्' । दशैतान् वेति वाकारो 'दत्तानाञ्चाप्यदत्तानां कन्यानां कुरुते पिता। चतुर्थे ऽहनि तास्तेषां कुर्बीरन् सुसमाहिताः'। इत्यादिपुराणोक्तत्रिराना. पेक्षया व्यवस्थितविकल्पार्थः । अनादत्तानामित्यत्र 'तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्य विरोधश्च नजर्थाः षट् प्रकीर्तिताः'। इत्यनुसारेण ईषदर्थे नत्र ऋष्यशृङ्गवच. नानुरोधात्। तेन वाग्दत्तेति गम्यते। अतएव क्तचूड़कन्या वाग्दानपर्यन्त मे काहेन दश पिण्डान् दद्यात् वाग्दानोत्तरकाले तु त्रिरात्रेण इति हारलताप्रभृतयः। तयवस्थायां वासना चेयम्। पूर्वोक्तादिपुराणवचनात् कन्याया मरणे पितुर्वाग्दानपूर्वापरयोरेकाहवाहविधानात्तस्या अपि पिटमरण तथैवेति। एवञ्च यन्मरणे यदशौचं तन्मरणे तदशौचं बाधकाभावात् कल्पाते। तथाच आदिपुराणे । 'मातामहानां दौहित्राः कुर्वन्त्यहनि चापरे। तेऽपि तेषां प्रकुर्वन्ति द्वितीयेऽहनि सर्वदा। जामातुः श्वशुरावस्तषान्तेऽपि च संयताः । मित्राणां तदपत्यानां श्रोत्रियाणां गुरोस्तथा। भागिनेयसुतानाञ्च सर्वेषान्त्वपरेऽहनि। श्राद्ध कार्यञ्च प्रथमं स्नात्वा कृत्वा जलक्रियान्'। अपरेऽहन्य शौचकालादिति शेषः । एवं हितीयेऽहनौति देवलः । 'भत्तगुर्योरभौचं स्यान्मृत्यु प्रसककारणम्। कारणागच्छति प्रेष्य तदाशुच्यं न तान् ब्रजेत् । भर्तृ सम्बन्ध्यशौचं प्रेष्याणाम्। गुरुसम्बन्ध्यशौचं शिष्याणां For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy