SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशी तत्त्वम् । समर्पिताङ्गजातान्येव भाव्यं भावयन्तीति । तत्र पूर्वजन्मार्जितानामिहापि जन्मनि । 'ऊनषोड़शवर्षेण बाल्ये यत् किल्विषं कृतम् । पचाधर्मप्रवृत्तेन तत्सर्वमुपशाम्यति' इति वचनादिप्राप्तानां दुरितानां चयः । तथाच तैत्तिरीयश्रुतिः । 'धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठ प्रजा उपसर्पन्ति धर्मेण पापमपनुदति धर्मेण सर्वं प्रतिष्ठितं तस्मादमें परमं वदन्ति' इति । जाबालभविष्यपुराणे 'क्षयं केचिदुपात्तस्य दुरितस्य प्रचचते । अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते । नित्यक्रियां तथा चान्ये धनुसङ्गफलां श्रुतिम् । नित्यक्रियां निव्या क्रिया बस्याः तां प्राप्येति शेषः । फलमिति पाठे कान्दसत्वम् । ततच फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणतः फलविशेषः स्यादिति न्यायेन नित्यकर्माणि कष्यादिषु दृष्टसाधनवत् साधनकर्मानुरूपेण किञ्चित् किञ्चित् कृत्वा दुरितानि नाशयन्ति प्रकरणभादिप्रत्ययानुत्पादनाय भवन्ति च । तथाच आपस्तम्बः । प्रयोजयिता चानुमन्ता कर्त्ता चेति सर्वे स्वर्गनरकफलभोक्तारो योभूय आरभते तस्मिन् फले विशेष इति । ' एवं फलं विनाप्यनुष्ठानं नित्यानामिष्यते स्फुटम्' इति भविष्यपुराणौयम् । पापचयानुषङ्गिकफलातिरिक्तफलपरम् । तथाच यमः । ' सन्ध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् । शंसितव्रताः दृढव्रताः । एतेन सङ्गिनामानुषङ्गिकं फलं मुमुक्षूणां मोच एव । अन्यथा तेषामनर्थापत्तेः । अन्येषास्त्वन्यथापि । शारीरकभाष्ये आपस्तम्बः आम्र फलार्थे निर्मिते छायागन्धः ' इत्यनुत्पद्यते । एवं धर्मं चर्यमाणं अर्था अनुत्पद्यन्त इति । शक्यसम्पादनेषु अपि यदङ्गं विस्मृतं तस्याम्यशक्यान्तर्भावात् तदभावेऽपि फलं भवत्येव किन्वत्र साङ्गार्थमच्युतस्मरणादिकं 1 For Private and Personal Use Only २७
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy