SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ एकादशीतत्त्वम् । श्रुते: सामान्यप्रवृत्ताया न तेषामनधिकार उक्तः किन्तु कचित् काम्ये सर्वशक्त्यषिकरणन्यायात्तेषामनधिकारः । अतएव तिथिविवेके स्वर्गकामअपि समर्थनरगोचरोपसंहारे अन्वादिपते दर्शपौर्णमासादेर्बाध इत्युक्तमित्यनेन काम्य एव दर्शादौ विशेषोऽभिहितः । एवञ्च नित्ये वाक्यान्तरश्रुतस्य खर्गादेर्न भाव्यत्वम् । सर्वदा तस्येष्टत्वासम्भवात् । तथा हि श्रविवेकिनामेव तदिच्छा विवेकिनां पुनः स्वर्गेऽपि पातभीरुत्वात् चयिष्णोर्नास्ति निष्कृतिरिति न्यायादेय बुद्धिस्ततः सर्वावस्था साधारणेच्छागोचरतया उपात्तदुरितक्षय एव माव्यः । यद्यपि 'विहितस्याननुष्टानामिन्दितस्य च सेवनात् । अनिग्रहाञ्चेन्द्रियाणां नरः पतनमृच्छति' । इति याज्ञवल्कावचनादकरणभाव्यनिष्ठपरिहारार्थत्वं सम्भवति तथापि तत्तfafeवाकोषु भावना एव विधेयत्वात्तस्याः किङ्केन कथमित्यपेचितांशत्त्रयवत्त्वाद्भाव्यं विना विधिरूपत्वासिद्धेस्तत्कालीनाकरणप्रत्यवायपरिहारस्य तत्प्रतियोगिनः कदाचिदनुत्पत्त्या तदत्यन्ताभावरूपस्य नित्यतया भाव्यत्वायोगाद्विधिप्रत्ययेन चेष्टस्यैव भाव्यत्वप्राप्तेर्धात्वर्थादेर्भाव्यत्वायोगादश्रुतफलेषु विश्वजिदादिषु दुरितचयस्य दुरितानिष्टत्वोपाधिकेच्छा विषयत्वात् तत्त्यागेन निरुपधीच्छाविषयस्वर्गस्यैव भाव्यत्वावधारणेऽपि नाव तथेति कर्त्तृणां कदाचिद्भगवदनुग्रहाहैराग्योत्पत्तौ स्वर्गऽपौच्छानिवृत्तेर्यावज्जीवानुष्ठेयकर्मसु स्वर्गस्य भाव्यत्वानुपपत्त्या सर्वस्य सर्वदेच्छागोचर उपात्तदुरितक्षय एव भाव्यः कल्पते । धात्वर्थरूपाणि भावनायां केनेत्यपेचितकरणत्वेनान्वीयन्ते । 'विधाने चानुवादे च यागः करणमिष्यते ' इति न्यायात् करणस्य कर्त्तव्यापारलचणस्येति कर्त्तव्यताख्योपकारकव्यापारं विनासम्भवात् । कथमित्यपेचितश्रुत्यादि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy