________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्। दधौव्रतस्य नित्यत्वात् किञ्चिदङ्गवैकल्येऽपि प्रधानोपवासादे. राचरणं यावज्जीवाधिकरसन्यायात्। स च न्यायो यथा। यावज्जीवमग्निहोत्रं जुहुयादिति श्रयते तत्र किं सर्वाङ्गोपसंहारेणैवाधिकारः उत यावजीवपदेन यावन्ति शनोतीत्यपसंहा यदा तदा तावद्भिरङ्ग रुपेतं प्रधानं कुर्वत्रधिकरोति इति संशयः । तत्रादो सर्वाङ्गोपेतस्य प्रधानस्य फलसाधनत्वादङ्गवैकल्ये फलानुदयात् सर्वाङ्गोपसंहार इति पूर्वपक्षः तत्र सिद्धान्तः सायंप्रातर्जुहोतौति श्रुतेः सायंप्रातःकालावच्छिन्न जीवनमग्निहोत्रस्य निमित्ततया श्रूयते नत्वङ्गानां सति निमित्ते नैमित्तिकमवश्यम्भावि अन्यथा निमित्तत्वासम्भवात्। अतोऽशक्याङ्गपरित्यागेन प्रधानं कर्तव्यम् । तावतैव शास्त्रवशाद फलसिद्धिरिति अतएव नित्यनैमित्तिकाधिकारि. काधिकार श्रीधरस्वामिता श्रुतिः यथा शक्नुयात्तथा कुर्यादिति। बौधायनोऽपि स्परति। 'यथाकथञ्चित्रित्यानि शक्यवस्तुनिरूपितः। येन केनापि कार्याणि नैव नित्यानि लोपयेत्' शक्यं वस्तु निरूपितं येन स तथा अन प्रथमा न लोपवेदित्यपेचया प्रधानशव्यभिधाने गुणशनिरनभिहितवत् प्रकाशते इति न्यायात् अतएवात्यन्ताशती गोतमः । 'मनसा चैवं सम्यगाचारमनुपालयेदापत् कल्पे' इति तस्मात् सायंप्रात:कालावशिवजीवनमात्रेऽग्निहोत्रहोमो विधीयते। योगियानवल्कयोऽपि। 'सर्वावस्थोऽपि यो विप्रः सम्योपासनतत्परः । ब्राहाण्यात्तु न होयेत अन्त्यजन्मगतोऽपि वा। सर्वावस्थोऽपि निन्दितसेवादिकरः। सम्यक्शौचाद्यसमर्थ इति कल्पतरुः । अन्य जन्मगतस्त्राहेण शूद्रो भवति ब्राह्मण: क्षीरविक्रयो इति मन्बाद्युक्तः । एवञ्च सम्यगाचमनाद्यसमर्थानामधादीनामपि नित्ये कर्मणि सध्यादावधिकारः। अतएव केनापि मुनिना
For Private and Personal Use Only