________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
एकादशीतत्त्वम् ।
स्यान्विताभिधानपर्यवसानादनध्याहारप्राप्ते । उच्यते। अत्रा. प्यभिधेयापर्यवसानं हाराभिधानापर्यवसानमिव कार्य हि साध्यत्वेन कतिनिरूप्य नरव्यापाररूपाततिः। सा यथा खसाध्यधात्वर्थनिरूप्या तथा स्वाश्रयनरनिरूप्या च। तदेवं कृते: कर्तापि कार्यस्य कतिहारा स्वसम्बन्धित्वेन निरूपक इति तमन्तर्भाव्येव नियोगधीः एवञ्च रथोगच्छतोत्यादावाख्याते व्यापारलक्षणा। तदुक्तं भट्टपादैः 'स्त्रीत्वाभावेऽपि श्रद्धादौ टावादिप्रत्ययो यथा। प्रयुज्यते तथाख्यातो यत्नाभावेऽप्यचेतने। वोढवादिगतो यत्नो रथादाबुपचय॑या। उपपाद्यप्रयोगोऽत्र मुख्यार्थानुपपत्तितः' न हबोद्धात्मनः कार्येण सम्बन्धः स्वतस्तेन सम्बध्यते। स्वसम्बन्धिकार्यवोहा च नियोज्य इति सोऽध्याहार्य इति स्थिते चिन्ता किं सर्वेषामधिकार उत एकस्येति अनाविशेषात् सर्वेषामिति प्राप्ते उच्यते । एकेनाकाशाशान्ते रेकस्येत्येवं स्थिते विचार: किं यस्य कस्यचिनियोज्यास्याध्याहार उत वर्गकामस्येति तत्राविशेषादनियमे प्राप्ते । उच्यते। स स्वर्ग: स्यात् सर्वान् प्रत्यविशिष्ट. त्वादिति जैमिनिसूत्रात्। स्वर्गकाम एवाध्याहार्यः विशेषो हि न गम्यते पुरुषाणां सुखाभिलाषित्वात्। दुःखनिवृत्तेपि तत्रैवान्तर्भावात् दुःखनिवृत्तिस्तु न सुख' विना भूता सुषुप्तौ सत्यामपि तस्यां सुखजन्मादर्शनात् अनवच्छिन्नसुखस्य खगत्वात् तस्य सर्वसुखविशेषान् प्रत्यविशिष्टत्वात् विशेषे मानाभावात् वर्ग एव नियोज्य विशेषणं स्यादित्युत्तरमीमांसायां कल्पतरुः। यदुक्तं 'यन्त्र दुःखेन संभिन्न न च ग्रस्तमनन्तरम् । अभिलाषोपनौतं यत्तत् सुख स्वःपदास्पदम् 'इति। ननु पलाश्रुतिमात्रात् कथं नित्यत्वमिति चेदुश्यते। फलाश्रुतौ नित्यप्रकरणे नित्यत्वं काम्यप्रकरणे काम्यत्वमिति । एवञ्चैका
For Private and Personal Use Only