________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुचितत्त्वम्।
३२९
ऽन्यमुविज वृणुयादिति। अनुप्राप्ते प्रारब्ध सवने यज्ञे एवं प्रेतकायं प्रथमाधिकारिनाशेऽन्ये नापि शेषः समाप्यते । तदाह बृहस्पतिः । ‘एवं क्रियाप्रवृत्तानां यदि कश्चिदिपद्यते । तबन्धुना क्रिया कार्या सर्वैर्वा सहकारिभिः'। न च सत्रे यथैकापचारे कर्ममध्ये एव सर्वेषां समुत्थानं कर्मसमापनमुतां तहदनापोति वायम्। तत्र फलस्य वर्गतत्वेन तथा सिद्धान्तितम् । अत्र परगतत्वेऽन्ये नापि तस्य समापनमिति। अथ हितीयाधिकारिणापि प्रेतत्वपरिहाराय कर्मादिकालविहित. सङ्कल्पं विना कथं क्रियत इति चेन्न षोड़शश्राद्धानां नित्यत्वात् प्रथमाधिकारिणापि तत्मजल्यो न क्रियते। तन्नित्यत्व. माह छन्दोगपरिशिष्ट 'ध्रुवाणि तु प्रकुर्वोत प्रमौताहनि सर्वदा। हादशप्रतिमास्यानि आद्य' पाण्मासिके तथा । सपिण्डीकरणञ्चैव इत्येतत् श्राद्ध षोड़शम्'। ध्रुवाणि आवश्यकानि। अतोऽशौचादिशङ्कया भविष्यदुर्गोत्सवादी यहरणादिकं करोति तत् कर्मकाले स्वयं प्रवत्तैनवत् प्रवर्तनाय न तु तत एव तदानी प्रतिनिधिर्भवति किन्तु कर्मकाले स्वयमेव तदर्थ कर्म क्रियते। अन्यथा शुचि तत्कालजीवित्वेनाधिकारात् तदानीमधिकाराभावात् कथं प्रतिनिधिविधानमिति। अतएव शङ्खलिखिती। 'राज्ञां पुरोहितो. ऽमात्यः शुद्धिस्तस्य तदाश्रया'। नृपतीनामात्मप्रतिनिधी. भूतपुरोहितस्तेन नृपतेरशोचे पुरोहितस्याशौचाभावात् नृपतेः शान्तिकपौष्टिकं पुरोहितेन स्लोयशुद्धया कर्तव्यमिति हारलताप्रभृतयः। एवञ्जेदशौचिद्रव्येण कषं क्रियत इति चेत् शुद्धिकाले तदर्थोपकल्पितत्वात्। तथाच यमः । 'दैवे भये समुत्यन्ने प्रधानाङ्गे विनाशिते। पूर्व सङ्कल्पिते चैव तस्मिबाशौचमिष्यते' । सप्ताङ्गराज्यस्य प्रधानाङ्ग राजनि। किञ्चि
For Private and Personal Use Only