SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । T प्रकाशे । 'निवर्त्तयति यो मोहात् क्रियामन्यनिवर्त्तिताम् । विविघ्नस्तेन भवति पितृहा चोपजायते । तस्मात् प्रेतक्रिया येन केनापि च कृता यदि । न तां निवर्त्तयेत् प्राज्ञः सतां धर्ममनुस्मरन्' इति वायुपुराणाञ्च । सर्वेषान्तु मतं कृत्वेति द्रव्येण च अविभक्त ेन इत्यनेन तेषामेतदेव कर्त्तव्यमिति प्रति पादितं न तु तदभावे पृथक्करणविधायकं विध्यन्तरकल्पनापत्तेः । अतएव संवत्सरप्रदौपे हलायुधेनोक्तम् । यदि मायकनिष्ठोऽग्निमान् ज्येष्ठी निरग्निस्तदा कनिष्ठ ेन दर्शा दर्वाक् सपिण्डने कृतं सपिण्डनं ज्येष्ठ ेन पुनर्नावर्त्तनीयं पृथक्करणनिषेधात् । एवं कनिष्ठस्य वृद्धिनिपातेऽपि बोध्यम् इति श्राद्धचिन्तामणौ एतच्च विदेशस्थ ज्येष्ठे तु बोध्य स्वदेशस्थे त ज्येष्ठ तहारेवापक्कष्य कनिष्ठ ेन कर्म कर्त्तव्यमिति । शुद्धिचिन्तामणौ तु यद्यपि 'अकृत्वा प्रेतकाय्याणि प्रोतस्य धनहारकः । वर्णानां यद् बधे प्रोक्तस्तद् व्रतं नियतञ्चरेत्' इति शङ्खवचनेन सर्वेषामेव पुत्राणां प्रेतश्राद्धकर्त्तत्वमायाति । तथापि स्वीयखीयधनदानद्वारा तत्कारयितव्यम् । सर्वेषान्तु मतं कृत्वेति लघुहारोतमरीचिवचनादित्युक्तम् । प्रत्याब्दिक एवं पृथक्करणमाह लघुहारीतः । 'प्रत्यब्दमितरे कुर्युरे - कोदिष्ट पृथक्सुताः । यावन्त एव पुत्राः स्युः पिण्डास्तावन्त एव हि । इतरे प्रतकाय्यधिकाय्र्यन्ये । 'कन्या वैवाहिक - चैव प्रेतकाय्र्यञ्च यत् कृतम् । तत् सर्वं हि प्रदातव्यं कुटुम्बेन कृतं प्रभोः' इति कात्यायनवचने प्रभोरिति कर्त्तरि षष्ठौ । तेन प्रभुणा दातव्यमित्यर्थः । इति रत्नाकरव्याख्यानात्तदायितव्यद्रव्यदानादपि प्रत्यवायानुदयः । किञ्च पृथङ् नैव सुताः कुर्युरिति श्रवणात् सर्वेषान्तु मतं कृत्वेत्यत्र सर्वेषां पुत्राणां फलायेदं श्राद्धं भवत्विति मतं ज्ञानं कृत्वेति व्याख्या For Private and Personal Use Only ३२७
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy