________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६
शुद्धितत्त्वम्।
प्रकरणीयत्वात्। किन्तु आपेक्षिकज्येष्ठपरम् । 'यमयोश्चैकगभैषु जन्मतो ज्येष्ठता स्मृता' इति मनुवचनानन्तरात् । 'ज्येष्ठ गुणवयः कृतम्'। इति मिताक्षरातदक्षवचनाच्च । अतएव 'नवशाई सपिण्ड त्वं श्राद्धान्यपि च षोड़श। एकेनैव तु कार्याणि संविभक्तधनेष्वपि' इति मिताक्षरात दक्षवचनेऽविशेषादेकेनैवेत्युक्त पिण्डमिश्रणमिति अत: षोड़शान्तर्गतसपिण्डीकरणश्राद्धेन न पौनरुक्तमिति। एतेन 'श्राद्धानि षोड़शापाद्य विदधीत सपिण्डताम्' इत्यपि व्याख्यातम् अतएव श्रीरामाप्राप्तिशङ्कया भरतेनाद्यादिश्राद्ध कृतम्। तथाच अयोध्याकाण्ड 'समतीते दशाहे तु कृतशोचो विधानतः । चक्रे हादशिकं श्राद्ध त्रयोदशिकमेव च। ददौ चोद्दिश्य पितरं ब्राह्मणेभ्यो धनन्तथा। महार्हाणि च रत्नानि गाञ्च वाहनमेव च । यानानि दासौर्दासांश्च वेश्यानि सुमहान्ति च। भूषणानि च मुख्यानि राज्ञस्तस्यौद्ध देहिके। चयोदशाहे तोते तु कृते चानन्तर विधौ। समेता मन्विणः सर्वे भरतं वाक्यमब्रुवन्। गत: स नृपतिः स्वगं भर्त्तासौद यो गुरुश्च नः। प्रव्राज्य दयितं पुत्र राम लक्ष्मण मेव च । त्वमद्य भव नो राजा धर्मतो ऋवरात्मजः'। दशाहपदमशौचकालोपलक्षणम्। हादशिकं हादशाहेन वृत्तं त्रयोदशाहविधेयमित्यर्थः । एवं त्रयोदशिकं चतुर्दशाहविधेयमित्यर्थः । इति श्राइविवेकः। न च यत्र देशान्तरादावनुमिति द्रव्यसंश्लेषयोरभावस्तत्र पृथगेव श्राहम् अन्यथा प्रत्यवायपरिहारो न स्यादिति श्राद्धविवेकोक्त युक्तमिति वाच्यम्। 'पृथङ्नैव सुताः कुर्युः पृथगद्रव्या अपि कचित्'। इत्युपदेशात् पृथक्करणनिषेधात् सर्वेषान्तु मतं कृत्वेति द्रव्येण चाविभक्त न इति विशेषणय श्रवणात् पृथक्करणविध्यन्तरकल्पनापत्तेः ।
For Private and Personal Use Only