________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२.
शुदितत्त्वम् । नोपवासः सूचितः। 'अघसस्तरे ब्राहमनश्नन्तः' इति वच्य. माणवशिष्ठवचनात् त्रिरात्रमिति सपिण्ड परम् । अक्षारलवणं क्षारमृत्तिकादिक्कतलवण भिन्नम्। तत्तु सैन्धवं सामुद्र च। यथा ब्रह्मपुराणे। 'सैन्धवं लवणञ्चैव यच्च सामुद्रक भवेत्। पवित्रे परमे ह्येते प्रत्यक्षेऽपि च नित्यशः'। पृथक्तयोपलभ्यमानं लवणं प्रत्यक्षलवणं न तु व्यञ्जनादिसंस्कार• कम्। संस्कारप्रत्यक्षयोर्मेंददर्शनात्। तथा कालिकापुरा. णम्। 'मरौचं पिप्पलं कोषं जीरकन्तन्तुभं तथा। संस्कार च समक्षे च महादेव्यै निवेदयेत्'। तन्तुभ: सर्षपः। 'वनमुदमे सर्षपे च हौ तन्तुभकदम्बको' इति अमरकोषात् । तन्तुना भातीति तन्तुम इति टोकापि। हागुरुषु मातापिटपतिषु कर्मोपदेशिन्यां देवलः । 'अन्य श्राद्धं परानञ्च गन्धं माल्यञ्च मैथुनम्। वर्जयेत् गुरुपाते तु यावत् पूर्णो न वत्सरः'। पारस्करभाष्ये वृहस्पतिः। 'पितुर्य्यपरते पुत्रो मातुःश्राद्धान्निवर्तते। मातयपि च वृत्तायां पितुःश्राद्धाहते समाम्'। ऋत इति मातुःथाडादित्यत्राप्यन्वेति। अन्यथा पूर्वावैयापत्तेः। समां संवत्सरं यावत् निवर्तते अन्य। श्राद्दादिति शेषः। अन्य श्राद्धमपि प्राप्तपिटलोकवाइपरम् । 'प्रमोती पितरौ यस्य देहस्तस्याशुचिर्भवेत्। नापि दैवं न वा पैत्र यावत् पूर्णो न वत्सरः'। इति देवीपुराणात्। तेन प्रेतश्राद्धान निवृत्तिः। तथाच कालिकापुराणम्। 'महागुरुनिपाते तु काम्य किञ्चिन्न चाचरेत् । आविज्यं ब्रह्मचर्यञ्च थाई दैवयुतञ्च यत्'। एतच्च देवपक्षयुतवाहवर्जनम् अमावास्यादिमृताहक्रियमाणसदैववाहेतरपरं सर्वसामनस्यात् । देवक्रियां तथेति देवलीये पाठः । शताविषये वशिष्ठः । ‘अधस्त्रस्तरे ब्राहमनश्नन्त आसौरन्' इति अघसस्तरे उपवेश
For Private and Personal Use Only