________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् ।
३१९
दन्तैः खण्ड यित्वा अग्निस्यों वक्ष्यमाणमन्त्रेण कार्यः । शिलायां पादन्यासोऽपि वक्ष्यमाणमन्त्रेण कायः। उक्तीप्रवेशनादिकं यत् कर्म तत् प्रेतसंस्पर्शिनामपि कार्य परेषा. मसपिण्डानान्तत्क्षणाच्छुद्धिमिच्छतान्तत् मानसंयमात् नानात् प्राणायामात् इति दीपकलिका। शङ्खलिखितौ। 'उत्तीय प्रेतस्पृष्टान्युत्सृज्य वासांसि परिधाय इतराणि रहहारे तस्मै प्रेताय पिण्डं दत्त्वा पश्चाटूर्वाप्रवालगोमयमजमग्निं वृषञ्चालभ्य प्रविशन्तो तगौरसर्षपैमूर्धानमङ्गानि चालभेरन् । शस्त्रपाण यो भवेयुयं थोतकालनियमाः'। इति आलभ्य स्पृष्ट्वा वैजवापः । 'शमौमालभन्ते शमी पापं शमयविति अश्मानमालभन्ते अश्मेव स्थिरो भूयासमिति अग्निमग्निनः शर्म यच्छत्विति ह्योगित्यन्तरा गाम जमुपस्पृशन्तः क्रौत्वा लब्धा वा प्राप्य गृहमे कानमालवण मे करात्रं दिवा भोक्तव्यं त्रिरात्र कर्मोपरमणमिति' । वृषच्छागयोर्मध्ये स्थित्वा ह्योगिति मन्त्रेण हावपि स्पष्टयौ गृहं प्राप्य उपवासात्यन्ताशकेन क्रीत्वा लब्धा वा एकानमलवणं लवणरहितमेकरात्रम् एकाहोरानं तत्रापि दिवा भोक्तव्यम् । कर्मोपरमणमङ्गसंवाहन तैलाभ्यङ्गमार्जनादित्यागः। छन्दोगपरिशिष्टम्। 'एवमुक्त्वा व्रजे युस्ते ग्रहं बालपुरःसरा: । स्नाना. ग्निस्पर्शनाभ्यासै: शुद्धे युरितरे कतैः । एवं शोकापनोदनान्ते सपिण्ड सगोत्राभ्यां इतरे सर्व सम्बन्धरहितास्त्रिनिमज्य वारनयमग्निं स्पृष्ट्वा शुद्धा भवन्ति। हारोतः। 'न प्रतस्पर्शिनो ग्रामं प्रविशे युरानक्षत्रदर्शनाद्रात्रौ चेदादित्यस्य ब्राह्मणानुमत्या वेति अशक्ती ब्राहाणानुमतिं गृहीत्वा प्रविशेयुः। आश्वलायनः । 'नेतस्यां रानावन्न पचेयुस्त्रिरात्रमक्षारलव. गानाशिनः स्युादशरात्रं महागुरुष्विति'। नानं पचेयुरित्यने
For Private and Personal Use Only