________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. ३१६
शुद्धितत्वम्।
देवपूर्व नराख्य हि शर्मवर्मादिसंयुतम्' इति विष्णु पुराणाइशमेऽहनौति सतरेणाशौचासे तदानीं नामकरणे बोध्य. मिति प्रागुक्त नरमाचष्टे इति नराख्य नरनामख्याख्यमितिवत् विभुजादित्वात् कप्रत्ययेन सिद्धं देवपूर्व देवात् पूर्व तच्च विशिष्ट शर्मयुतम्। तच्चान्ते 'शर्मनादिके कार्य गर्मा तर्पणकर्मणि। शर्मणोऽक्षय्यकाले तु पितॄणां दत्तमक्षयम्' इति गोभिलदर्शनात्। 'शर्मान्तं ब्राह्मणस्य स्याहर्मान्त' क्षत्रियस्य तु। धनान्तञ्चैव वैश्यस्य दासान्तञ्चान्त्य जम्मन:' इति शातातपौयाच्च । शृणाति हिनस्त्यशभमिति मन्प्रत्ययात् शर्मेति सिद्धं देवपदं विप्राणां नाममात्रसम्बन्धम्। 'शर्मा देवश्च विप्रस्य वर्मनाता च भूभुजः। भूतिर्दत्तच वैश्यस्य दासः शूद्रस्य कारयेत्' इति कल्पतरुकुल्लुकभष्टतयमवचनात् अत्रापि चकारात् समुच्चयः। यत्तु 'शर्मेति ब्राह्मण स्योक्तं वर्मेति क्षत्रियस्य च। गुप्तदासात्मकं नाम प्रकुर्यात् वैश्यशूद्रयोः' इत्यत्रेति पदस्वरसेन यद्यपि शर्मपदात्मकमेव नामावगम्यते इति हैतनिर्णये पूर्वपक्षवर्णनं तहिष्णु पुराणीयैतहचनप्रागवस्थितस्य । ततश्च नाम कुर्वीत इत्याद्युक्तवचनस्थानभिज्ञानात्। किन्तु शर्मेति वचनं शर्मवर्मादिसंयुतमित्यस्य विशेषकमिति। एतेनामुकदेवशर्मा प्रत इत्यादि मैथिलानां वाक्यरचना हेया नाहीतेत्यादि न्यायविरोधात्। यम. विष्णुपुराणोक्तदेवपदादिरहितत्वाह्रोभिलोक्तशर्मन्नित्यादिनिर्देशरहितत्वाच। गोत्रनामानुवादीत्याद्यनेकवचने गोत्रशब्ददर्शनात् गोत्रपदमेवोच्चायं न तु पिटदयिताकल्पतरुत्राद्ध विवेकोक्तं गोत्रपायकमपि सगोत्रपदम् एवं श्राद्धेऽपि तथाच गोभिलः। 'गोत्रं स्वरान्तं सर्वत्र गोत्रस्याक्षय्य कर्मणि। गोत्रस्तु तर्पणे प्रोतः कर्ता एवं न मुद्यति' इति । एवमेव
For Private and Personal Use Only