________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्वम् । चितामारोप्यते शवः। अधोमुखो दक्षिणादिचरणस्तु पुमानिति। उत्तानदेहा नारी तु सपिण्डैरपि बन्धुभिः' । दक्षिणा दिचरण इत्यनेनोत्तरशिरस्त्व यत् तत् सामगेतरपरम् । हारलतापि एवम्। ततो देवाश्चाग्निमुखाः सर्वे हुताशनं ग्रहीत्वा एनं दहन्विति मनसा धावा 'चाण्डालाम्नेरमेध्याग्नेः सूतिकाग्नेश्च कहिचित्। पबिताग्नेचिताग्नेश्व न शिष्टैर्ग्रहणं स्मृतम्' इति देवलपर्य्यदस्तेतरमग्नि रहौत्वा कत्वा तु दुष्करमिति मन्त्री पठित्वा प्रदक्षिणं कृत्वा दक्षिणामुखः शिरस्थाने दद्यात्। स्त्रोदाहेऽपि नरमित्येव पाठः इत्युक्तमेकादशीतत्त्वे। विष्णु पुराण। 'न इ कुयाच्छवञ्चैव शवगन्धो हि सोमजः'। आदिपुराणे 'निःशेषस्तु न दग्धव्यः शेषं किञ्चित्त्यजेत्ततः । गच्छेत् प्रदक्षिणाः सप्त समिद्भिः सप्तभिः सह। देयाः प्रहाराः सप्तैव कुठारेणोल्मुकोपरि। क्रव्यादाय नमस्तुभ्यमिति जम्यं समाहितः। नावेक्षितव्यः क्रव्यादी गन्तव्या च ततो नदी' । प्रदक्षिणा गतिरिति शेषः । समिधां प्रक्षेपमाह प्रचेताः । 'दग्धा शवं ततस्त्वं वं प्रादेशाः काठिकास्तथा। सप्त प्रदक्षिणीकृत्य चैकैकान्तु विनिक्षिपेत्'। तेन प्रादेशप्रमाणा: सप्तकाष्ठिका गृहीत्वा चिताग्निं सप्तवारान् प्रदक्षिणीकत्य सप्तकाष्ठिका एकै कक्रमेण चिताग्नौ प्रक्षिपेत् । तत: कुठारेण क्रज्यादाय नमस्तुभ्यमिति मन्वजपं कुर्वनि. श्चितास्थज्वलदारूपरि सप्ताहारा देयाः मन्त्रपाठस्तु सक्कदेव । एकद्रव्ये कर्मावृत्ती सक्कदेव मन्त्र वचनं कवेति भट्टभाष्यकृतवचनात्। दर्भजटिकाहोमे तु अतएव वर्हिषः कुशमुष्टिमादायाज्ये हविषि वा निरवदध्यात् अग्राणि मध्यानि मूलानि इति च त्यक्त रिहाना व्यन्तुवय इति गोभिलेन स्थानभैदकथनादेकद्रव्येऽपि कर्माहत्तौ मन्त्रावृत्तिरिति भभाषम् ।
For Private and Personal Use Only