SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम्। ३०५ सर्व इति द्वितीयार्थ प्रथमा। वस्त्रान्तरं परिधाप्य उपवीतमुत्तरीयञ्च दत्त्वा चन्दनादिनोपलिप्य मुखेषु मुखसम्बन्धिषु कर्णनासिकानेत्रदयमुखात्मकेषु सप्तछिट्रेषु सप्तसुवर्ण खण्डिकाः प्रक्षिपेत्तदभाव कांस्यादिखण्डिका मुखे निधाय कांस्य सुवर्णमणिविद्रुममित्यादि पुराणात्। वस्त्रान्तरेणाच्छाद्य निह. रेयुः। अग्निपुरःसरमिति साग्निपरम्। तस्यावस्याईमईपथे त्यजेत् । श्रादह्यतेऽस्मिन्निति प्रादहनं श्मशानं तत्प्राप्तः पुचादिरग्निदाता आप्लावनं कृत्वा वामं जान्वाच्य भूमि नीत्वा दक्षिणामुख उपविशति तिलसहित अपरमन्नाई पिण्डादानेतिकर्त्तव्यतयोत्स्जेदित्यनुषङ्गः। पिण्डदानेतिकर्तव्यता च प्राचौनाबौतित्वम् उपवीतवदुत्तरीयधारणञ्च । तथाच विद्याकरतं 'यथा यज्ञोपवीतञ्च धार्यते च हिजोतमैः। तथा सन्धार्यते यत्नादुत्तराच्छादनं शुभम्'। अत्र यथा हिजोत्तमैः सव्यापसव्यत्वादिना उपवीतं धार्यते तथो. तराच्छादनमपि। अत्र यथा यज्ञोपवीतधारणे उत्तमत्वमविवक्षितं क्षत्रियविशोस्तत्सम्भवात्तथोत्तरीयधारणे हिजोत्तमत्वमप्यविवक्षितं स्त्रीशूद्रयोरपि हिजोपवौतधारणवत् उत्तरोयधारणाचारात् 'विकच्छः कच्छशेषश्च मुक्तकच्छस्तथैव च । एकवासा प्रवासाश्च नग्नः पञ्चविधः स्मृतः' इति हरिशर्मधृतगोभिलादेकवस्त्रस्य सामान्यतो नग्नत्वाभिधानात्तत्परिहाराय हिवस्त्रोपयोगित्वाञ्च स्त्रियास्तु अथ पत्नवाचारम् अनुक्रमिष्याम इत्यु पक्रमे सात्वा वाससी परिधायेति हारीतेनोपदेशाच्च । अतएव विवाहप्रकरणीयगोभिलसूत्र स्थप्राकृतां यज्ञोपवौतिनौमित्यत्र स्त्रिया उपवीता भावे यज्ञोपवीतधारणवत् कतोत्तरीयामिति भट्टभाष्थव्याख्यानादत्राप्यपसव्यताया युक्तखाच्च। 'अपसव्य ततः कला वस्त्रयन्त्रोपवीतके' इति ब्रद्धा For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy