________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शहितवम्।
दानं मित्रं मरिष्यतः'। वराहपुराणे। 'व्यतीपातोऽथ संक्रान्तिस्तथैव ग्रहणं रवेः। पुण्य कालास्तदा सर्वे यदा मृत्युरुपस्थितः। गोभूतिलहिरण्यादिदत्तमक्षयतामियात्' । निरवकाशत्वादत्र मलमासादिदोषो नास्ति सूतकमपि न । तथाच शुहिरत्नाकरे दक्षः। 'सुस्थकाले विदं सर्वं सूतकं परिकीर्तितम्। पापगतस्य सर्वस्य सूतकेऽपि न सूतकम् । विपुष्करशान्तिरपि का- स च योगः श्रीपतिरत्नमाला याम। विषमचरणं घिध्य' भद्रातिथियदि जायते। दिनकरशनिक्ष्मापुत्राणां कथञ्चन वासरेषु। मुनिभिरुदित: सोऽयं योगस्त्रिपुष्करसंजितः। त्रिगुणफलदो वृद्धौ नष्टे हृते च मृते विषमाचरणं धिट्यम् एकत्रिपादरूपेण उभयराशिप्रविष्टं नक्षत्र कत्तिकापुनर्वसुप्रभृति मरणे वाप्यादौ नान्तर्जलाचारः। तथा सति मृतशरीरयोगेन तस्य दुष्टता स्यात्। यथा ब्रह्मपुराणम्। 'येषामभक्ष्यं मांसञ्च तच्छरोरै. युतञ्च यत्। वापौकूपतड़ागेषु जलं सर्वश्च दुष्यति। तच्छरौरैमतशरीरैः। उत्तरवचने कुणपग्रहणात् यथा। 'सकुणपं सकर्दमं तेभ्यस्तोयमपास्य तत् । प्रक्षिपेत् पञ्चगव्यच समन्त्र सर्वगुधिवत्। अपास्य कुणपं तेभ्यो बहुतोयेभ्य एव वा। शतं षध्यथवा विंशत् तोयकुम्भान् समुद्धरेत्। पञ्चगव्यं ततस्तेषु प्रक्षिपेन्मन्त्रपूर्वकम्'। वापी ससोपाना नि:सोपान: कूप: तड़ागः पद्माकरः। शतादिजलाल्पत्वाद्यपेक्षया अत्यत्यस्य सर्वोडारणाभिधानात्। एवं मरणसमये ग्रहात्रिःसा. बतेऽन्यथा ग्राहय दुष्टता स्यात्। यथा वृहम्मनुः । 'खशूद्रपतितासान्या मृताश्चेत् हिजमन्दिरी। शौचं तत्र प्रवक्ष्यामि मनुना भाषितं यथा। दशरानाकुनि प्रेते मासात् शूटे भवे. छुचिः। द्याभ्यान्तु पतिते गैहे अन्त्ये मासचतुष्टयात् ।
२६-क
For Private and Personal Use Only