SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । उदरस्थेन योमृतः । स वै खरत्वमुष्टुत्वं शूद्रत्वच्चाधि गच्छति' । शूद्रानं शूद्रखामिकान्नम् । तद्दत्तमपि भोजनकाले तदग्गृहावस्थितं यत्तदपि शूद्रानं तदाह अङ्गिराः । 'शूद्रवेश्मनि विप्रेण चौरं वा यदि वा दधि । निवृत्तेन न भोक्तव्यं शूद्राव तदपि स्मृतम्' । अपिशब्दात् साचात्तद्दत्तघृततण्डुलादि न तु तद्दत्तकपर्दकादिना क्रीतमपि । खग्टहागते पुनरङ्गिराः । यथायतस्ततो ह्यापः शुद्धिं यान्ति नदीं गताः । शूद्राद्दिप्रग्टहेष्वन्न प्रविष्टन्तु सदा शुचि' । प्रविष्टं स्वत्वापादक प्रतिग्रहादिनेति शेषः । अतएव पराशरः । 'ताद्भवति शूद्रान्न' यावत्र स्पृशति द्विजः । दिजातिकरसंस्पृष्ट ं सर्वं तवविरुच्यते' । स्पृशति प्रतिगृह्णातौति कल्पसदः । तच्च संप्रोक्षग्राह्यमाह विष्णुपुराणं संप्रोचयित्वा गृहीयाच्छूद्राव' गृहमागतम्' । तच्च पात्रान्तरे ग्राह्यमाह अङ्गिराः । ' खपावे यत्तु विन्यस्तं शूद्रो यच्छति नित्यशः । पात्रान्तरगतं ग्राह्य' दुन्ध खग्टहमागतम् । एतेन स्वग्टहमागतस्यैव शुद्धत्वं तदुग्गृहगतस्य शूद्राबदोषभागित्वं प्रतीयते । ततश्चैतादृगपि मुमूर्षुणा सर्वथा शूद्रान्न' न भोक्तव्यम् । पूजारत्नाकरे । 'शालग्रामशिला यत्र तत्र सन्निहितो हरिः । तत्सन्निधौत्यजेत् प्राणान् याति विष्णोः परं पदम् । लिङ्गपुराणे । 'शालग्रामसमीपे तु क्रोशमानं समन्ततः । कौकटेऽपि मृतो याति वैकुण्ठभवनं नरः' । कोकटो मगधः । वैष्णवामृते व्यासः । ' तुलसीकानने जन्तोर्यदि मृत्युर्भवेत् क्वचित् । स निर्भय यमं पापी लौलयैव हरिं विशेत् । प्रयाणकाले यस्याये दौयते तुलसीदलम् । निर्वाण याति पचौन्द्र ! पापकोटियुतोऽपि सः । कूर्मपुराणम् । 'गङ्गायाच जले मोक्षो वाराणस्यां जले स्थले । जले स्थले चान्त For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy