________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९४
शुदितत्त्वम्।
यद्यन्नमत्ति तेषान्तु दशाहेनैव शयति। अनदबनम जैव न चेत्तस्मिन् गृहे वसेत्'। बन्धुवत् स्नेहाद्यनुबन्धादशुचि. ग्रहवासे तदनभक्षणरहितानां त्रिरात्र यद्गृहवासतदन. भोजनरहितानां नेहादसम्बन्धिनो निहरणेऽहोरात्रम् । बान्धवेषु अदृष्ट बुद्ध्या तदग्टहवासाद्यभावेऽपि निहरणे विरात्रम् । विष्णुः । 'चिताधमसेवने सर्वे वर्णाः स्नानमाचरे युः' । पार. स्करः ‘अस्थि सञ्चयनादर्वाग् यदि विप्रोऽशु पातयेत्। मृते शूद्रे प्रहं गत्वा त्रिरात्रेण विशुद्धयति । अस्थिसञ्चयनादूट यावन्मासं दिजातयः। दिवसेनैव शुद्धान्ति वाससां क्षालनेन च। स्वजातेर्दिवसेनैव महात् क्षत्रियवैश्ययोः । स्पर्श विनानु. गमने शूद्रो नक्तेन शुद्धयति। मृतस्य बान्धवैः साई कृत्वा तु परिवेदनम्। वर्जयेत्तदहोरात्र दानं स्वाध्याय कर्म छ' । राहगमन एव विरात्र स्थानान्तरमेलने एकरात्र मृतस्य शूद्रस्य परिवेदनं रोदनरहितविलापमात्रम्। अस्थिसञ्चय. नाङ्गस्पर्शयो: कालमाह संवतः। 'चतुर्थेऽहनि कर्त्तव्यमस्थिसञ्चयनं हिजैः । ततः सञ्चयनादूच मङ्गस्पर्थो विधीयते। चतुर्थे ऽहनि विप्रस्य षष्ठे,वै क्षत्रियस्य च। अष्टमे दशमे चैक स्पर्शः स्यादेश्यशूद्रयोः'। एतत् सम्पूर्णाशौचे। खण्डाशौथे तु देवलः। 'अशौचकालाहिजेयं स्पर्शनन्तु त्रिभागतः'। अतिक्रान्ताशौचे तु सचेलस्नानादङ्गास्पृश्यत्वनिवृत्तिः पूर्वोक्ता निर्दशमिति मनुवचनात्। जनने तु कूर्मपुराणम् । 'सूतके तु सपिण्डानां संस्पर्शो नैव टुथति'। मातृणान्तु आदिपुराणे। 'ब्राह्मलो क्षत्रिया वैश्या प्रसूता दशभिर्दिनः। गतैः शूद्रा तु संस्पृश्या वयोदशभिरेव च'। पुत्रजनने पितुर्विमातृणाच स्नानात् स्पृश्यत्वं सूतिकास्पर्शने तत्समकालास्पृश्यत्वञ्च वक्ष्यते। अत्रैव हृदशातातपः। 'दक्या सूतिका वापि अन्त्यजं संस्मृ.
For Private and Personal Use Only