SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८८ शुञ्चितत्त्वम् । धर्माणामिति वचनादाकाशितत्वात् कुष्ठयादीनामपि प्रायश्चित्तम् अतएव प्रायश्चित्तविवेके प्युक्तमेवं दुश्चर्मादिषु अपि ऊह्यमिति महापातकादतिपातकस्य गुरुत्वात् तच्छेषेऽपि प्रायश्चित्तं द्विगुणम् । कर्मविपाके शातातपः । 'महापातकर्ज चिह्न सप्तजन्मसु जायते। बाधते व्याधिरूपेण तस्य कच्छा. दिभिः शमः। कुष्ठञ्च राजयक्ष्मा च प्रमहो ग्रहणी तथा'। अत्र कुष्ठपदमल्पकुष्ठपरमिति पूर्वेण अविरोधः । एवञ्च 'ऊनेकादशवर्षस्य पञ्चवर्षाधिकस्य च । चरेद् गुरुः सुहृद्दापि प्रायः श्चित्तं विशुद्धये। इत्यङ्गिरोवचने 'रोगी वृद्धस्तु पोगण्डः कुर्वन्त्वन्येव्रतं सदा' इति ब्रह्मपुराणे च अन्यपापक्षयार्थमन्यकर्तकप्रायश्चित्तदर्शनादत्रापि तुल्यन्यायतया स्वयमकतप्रायश्चित्तस्य मृतस्य पुत्वादिना प्रायश्चित्तं कृत्वा दाहादिकं कार्यम् । मनुः । 'शस्त्रेणाभिमुखो यस्तु बध्यते क्षत्रधर्मणा । यज्ञः संतिष्ठते तस्य सद्यः शौचं विधीयते'। क्षत्रधर्मेण अकातरत्वादिना यज्ञः पिण्ड दानादिरूपः सतिष्ठते समाप्तिमेतौति रत्नाकरः । यज्ञो ज्योतिष्टोमादिस्तस्य भवतीति प्रसङ्गादुका मिति प्रकाशकारः। पराशरः । 'ब्राह्मणार्थ विपन्नानां दण्डिनां गोग्रहे तथा। पाहवेषु विपन्नानामेकरात्रमशौचकम् । गवार्थ ब्राह्मणार्थे वा संग्रामे दण्डेन सम्बध्यमानानां मरणे एकाहोरात्रमशौचकम् । वृहस्पतिः । 'डिम्बाहवे विद्युता च राजा गोविप्रपालने। सद्यः शौच मृतस्याहुख्यहञ्चान्ये महर्षयः। डिम्बाहवे नृपतिरहितयुद्धे शस्त्रैरभिमुखहतस्य सद्यः शौच लगुड़ादिहतस्य पराङ्मुखहतस्य च त्रिरात्र वजाभिघातेन मरणं भवतु इत्यभिसन्धाय स्थितस्य मरणे सद्यः शौच प्रमादाविरात्रम्। राजा बधाहीं पराधहतस्य सद्यः शौचं तदन्यस्य त्रिरात्रम् । गोविप्र For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy