SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम्। २८८ पालनेऽभिमुखत्वपराम खत्वाभ्यां सद्यस्विराचे व्याघ्रः 'क्षतेन म्रियते यस्तु तस्याशौचं भवेट्विधा। आसप्ताहाचिरात्र स्थाद्दशरात्रमत:परम्। शस्त्र घाते बहादूच यदि कश्चित् प्रमीयते। अशौच प्राकतं तत्र सर्ववर्णषु नित्यशः' । विद्याच्छङ्घस्य वचनं यथेति क्वचित् पाठः। अत्र शस्त घातपदं क्षतेतरशस्त्रघातपरं पारिभाषिक शस्त्रघातपरमपि। यथा देवीपुराण। 'पक्षिमत्स्य मृगैर्ये तु दंष्ट्रिशृङ्गिनखेहताः । पतनानशनप्रायैर्वजाग्निविषबन्धनैः। मृता जलप्रवेशेन ते वै शस्त्रहताः स्मृताः'। अन्यथा क्षतं विना पतनादिभिविलम्बमृतानां दिन ग्रहणेऽनध्यवसाय: स्यात् । न च शास्त्रीयव्यवहारेन्तरङ्गवेन पारिभाषिक ग्रहणस्यैव युक्त त्वमिति वाच्यम्। श्राद्धे पारिभाषिकापारिभाषिकशस्त्राघातग्रहण - वदनापि तथा युक्तत्वात् पारिभाषिकत्वादेव न प्रकरणनियमः। पथ सदाः शौचम्। तत्र विष्णुः। 'नाशौच' राज्ञां राजकर्मणि न वतिनां व्रते न सत्रिणां सत्रे न कारुणां स्त्रकर्मणि न राजाज्ञाकारिणां तदिच्छया न देवप्रतिष्ठाविवाहयोः पूर्वसंहतयोः' इति। सत्रिणां नित्यप्रहत्तानदानानां सत्रेऽन्नदाने। कारवः सूपकाराद्याः। श्रादिपुराणे 'सूपकारेण यत् कर्मकरणीयं नरेष्विह। तदन्यो नैव शक्नोति तस्माच्छुद्धिः सपूधक्कत्'। कूर्मपुराणे 'कारव: शिल्पिनो वैद्या दासा दास्य स्तथैव च। दातारो नियमा चैव ब्रह्मविद् ब्रह्मचारिणौ। सत्रिणो वतिनस्तावत् सद्यः शौचा उदाहताः'। आदिपुराणे 'शिल्पिनाश्चत्रकाराद्याः कर्म यत् साधयम्त्युत। तत् कर्म नान्यो जानाति तस्मात् शुधः खकर्मणि। दासा दास्यश्च यत् कर्म कुर्वन्त्यपि च लीलया। २५-क For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy