________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुञ्चितत्त्वम् ।
२८५.
कलौ शूद्रस्यैव । ब्राह्मणादीनान्तु श्रादित्यपुराणेन सगुणायशौचप्रकरणोक्तेन निषेधात् । अशनिमृतानां प्रमादात् भृगुरुच्च प्रदेशः । ब्रह्मपुराणं 'प्रमादादपि निःशङ्गत्वकस्माद्विधिचोदितः । शृङ्गिदंष्ट्रिनखिव्यालविषविद्युज्जलादिभिः । चाण्डालैरथवा चौरैर्निहतो वापि कुत्रचित् । तस्य दाहादिकं कार्य्यं यस्मात्र पतितस्तु सः । शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रियाजलैः । आदरात् परिहर्त्तव्यः कुर्वन् क्रौड़ां मृतस्तु यः । नागानां विप्रियं कुर्वन् दग्धश्वाप्यथ विद्युता । निग्टहीतः स्वयं राज्ञा चौर्यदोषेण कुत्रचित् । परदारान् रमन्तच द्वेषात्तत्पतिभिर्हताः । असमानैश्च संकीर्णैश्वाण्डालाद्यैश्च विग्रहम् । कृत्वा तैर्निहतास्तांस्तु चाण्डालादौन् समाश्रिताः । गवाग्निविषदाश्चैव पाषण्डाः क्रूरबुद्धयः । क्रोधात् प्रायं विषं वह्नि शस्त्रमुद्दन्धनं जलम् । गिरिवृक्षप्रपातच ये कुर्वन्ति नराधमाः । कुशिल्पजीविनश्चेव सूनालङ्कारकारिणः । मुखे भगाच ये केचित् क्लीवप्राया नपुंसकाः । ब्रह्म टण्ड हता ये च ये च वै ब्राह्मणैर्हताः । महापातकिनो ये च पतितास्ते प्रकीर्त्तिताः 1 पतितानां न दाहः स्यान्नान्त्यष्टिर्नास्थिसञ्चयः । न चाश्रुपात: पिण्डो वा काय्यें श्राद्धादिकं क्वचित् । एतानि पतितानाञ्च यः करोति विमोहितः । तप्तक्कच्छ्रत्वयेनैव तस्य शुद्धिर्नचान्यथा' । प्रमादादनवधानात् । निःशङ्कः दंष्ट्रिशृङ्गिनख्यादिहिंस्रजन्तुसन्निधिशङ्कारहितः पुरुषो विधिचोदितो मरणकर्मप्रेरितः सन् यदा पलायनासमर्थः अकस्माज्झटिति शृङ्गादिभिर्निहतो भवति तदा सर्वमेव दाहादिकं कर्त्तव्यम | संकीर्णैः प्रतिलोमसङ्करजातैः । असमानैरित्यनेन ब्राह्मणादीनामेव न तु चाण्डालादीनामन्योन्यकलहेन । गव्य व्याधिजनकमौषधं कृत्रिमविषमिति
For Private and Personal Use Only
·